________________
२४ ]
१२६. मेतार्याख्यानकम् ।
दीपज्वलनपर्यन्त नियम कायोत्सर्गस्थितस्य दंश-मसकोपसर्गपीडितस्य चन्द्रावतंसकनृपस्य कायोत्सर्गपारणानन्तरं मृत्युः | राज्यश्रीमनिच्छतोऽपि मुनिचन्द्रस्य स्वजनाद्युपरोधेन राज्याभिषेकः । स्वपुत्रराज्याप्राप्य सन्तुष्टपद्मावती देवी कृत विषपरिभावितमोदकप्रसङ्गतो मुनिचन्द्रराज्ञः प्रत्रज्याग्रहणम् । मुनिचन्द्रसहितस्य गुरोरखे उज्जयिन्यागतसाधुकथित उज्जयिनीनृपकुमार - पुरोहितपुत्रकृतश्रमणविटम्बनावृत्तान्तः । निजभ्रातृपुत्रदुश्चेष्टितं विज्ञाय लब्धगुर्वाज्ञस्य मुनिचन्द्रमुनेरुज्जयिनीगमनम् । मुनिचन्द्रमुनिकृतो राजपुत्र- पुरोहितपुत्राङ्गभङ्गः । मुनिचन्द्रमुन्युपालम्भितस्य सागर - चन्द्रनृपस्य क्षमाप्रार्थना बाल्युगलाङ्ग समीकरणप्रार्थना च । 'शुभभावप्रव्रज्याग्रहणं विना बालयुगलाङ्गसमीकरणं न करिष्ये' इति मुनिचन्द्रमुनिनिश्चयाद् द्वयोर्बालयोः प्रव्रज्याग्रहणम्, नवरं जातिमदादिदोषकलुषितभावस्य पुरोहितपुत्रस्य प्रव्रज्यासेवनम्, अन्ते द्वयोर्देवलोकगमनम् । जातिमददोषकर्मोदयेन पुरोहितपुत्रजीवदेवस्य मातङ्गगृहे जन्म । मातङ्गिन्याः श्रेष्ठिन्या सह स्नेहसम्बन्धेन श्रेष्ठिन्याश्च निन्दुत्वात् श्रेष्ठिनीजातमृतपुत्री स्थाने मातङ्गिनीकृतं समकालजातनिजपुत्रपरावर्तनम् । मातङ्गपुत्रस्य श्रेष्ठपुत्रत्वेन प्रसिद्धिः, वर्धापनकादि, मेतार्यनामाभिधानकरणं च । स्वप्रतिबोधनार्थपूर्वप्रार्थितराजपुत्रजीवदेवकृतं तारुण्यभावजुषो मेतार्थस्यानेकधा स्वप्नेषु प्रतिबोधनम् । मेतार्यस्य धर्मानभिमुखतां विज्ञाय विवाहसमये मातङ्गसकाशाद् देवकृतोऽपत्यपरावर्तनप्रच्छन्नभेदः, मूलपित्रा चाण्डालेनापकर्षितस्य मेतार्यस्य मातङ्गगृहावस्थानं च । चाण्डालगृहस्थितस्य मेतार्यस्य प्रकटीभूतराजपुत्रजीवदेवकृतं स्वरूपदर्शनम् । मेतार्यस्य देवपुरतः स्वसंसारासक्तिकथनम्, द्वादशवर्षपश्चात् प्रतिबोधनार्थं विज्ञापनम्, चाण्डालपुत्ररूपनिजावर्णवादनिरासार्थं प्रार्थना च ।
सवृत्तिकस्य आख्यानकमणिकोशस्य
१२७. सनत्कुमाराख्यानकम् ।
Jain Education International
देवप्रदत्तरत्नोत्सृजन्मेष-वैभारगिरिरथमार्गनिर्माण-राजगृहसमीपसमुद्रानयनादि प्रयोगनिमित्तशुद्धीकृताय मेतार्याय श्रेणिककृतं कन्यादानम् । नव ( ९ ) पत्नीभिर्विलसतो मेतार्यस्य द्वादशवर्षातिक्रमे देवकृतः प्रतिबोधः, मेतार्यनवपत्नीप्रार्थितद्वितीयद्वादशवर्षसमयानन्तरं देवप्रतिबोधितस्य सपत्नीक - स्य मेतार्यस्य प्रवज्याग्रहणं च । क्रौञ्चपक्षिगिलितसुवर्णयवान्वेषक सुवर्णकारपृष्टस्य क्रौञ्च जीवोपरिदयालोरजल्पतो मेतार्यमुनेः सुवर्णकारकृतो मारणान्तिकोपसर्गः, मेतार्यमुनेः केवलज्ञानं सिद्धिगमनम्, ज्ञातसद्भावस्य श्रेणिकभीतस्य सकुटुम्बस्य सुवर्णकारस्य प्रवव्याग्रहणं च ।
सनत्कुमारस्य जन्म, मन्त्रिपुत्र महेन्द्रसिंहेन सह विद्याभ्यासः सख्यं च । प्राप्तयौवनस्य सनत्कुमारस्य दुःशिक्षिताश्वतोऽपहारः । सनत्कुमारान्वेषणार्थं निर्गतस्य सुबहुसमयं पर्यटतो महेन्द्रसिंहस्य सपत्नीकेन सनत्कुमारेण सह मेलापकः । महेन्द्रसिंहपुरतो बकुलमतोकथित सनत्कुमारवृत्तान्ते - दुः शिक्षिताश्वापहृतस्यारण्यमध्ये मूर्च्छितस्य
For Private Personal Use Only
३५४-६२
३५५
३५६-५८
३५९
३६०
३६०-६२
३६२
३६२-६७
www.jainelibrary.org