________________
३००-१
३०१-४ ३०४-२१
३०४
३०४-५
३०६-७
२०]
सवृत्तिकस्य आख्यानकमणिकोशस्य देहिलनाम्ना पोतवणिजा कृतं शीलवत्या अपहरणम् , शीलवत्यन्वेषणार्थ गच्छतः स्थापितकुलद्वयैकैकपुत्रस्य नरविक्रमस्य नदीपूरेण वहनं च । अपुत्रस्य कीर्तिधर्मराज्ञो मरणे पश्चदिव्यप्रयोगे कृते नरविक्रमस्य जयवर्धननगराधिपतित्वम् । समन्तभद्रमुनिदेशना । नरविक्रमपुत्रयुगल-शीलवतीनां मेलापको राज्यसुखोपभोगश्च । अन्ते
नरविक्रमस्य देवलोकगमनम् । ३७. देवनिवारणाऽशक्यताधिकारः ।
दैवाप्रतिकारित्वनिदर्शकाख्यानकनामनिरूपणम् । १०८.
द्विजसुताख्यानकम् । वराहमिहिर-भदब्राह्वोर्जन्म, वराहस्य सावित्र्या सह विवाहः, भद्रबाहोः प्रव्रज्याग्रहणम् , वराहमिहिरकृतं निमित्तज्ञानविपर्यासतः तत्समयजातपुत्रराज्यान्तरसङ्क्रमणं च । जातद्वितीयपुत्रवर्धापनायामनागतं भद्रबाहुं प्रति वराहस्य द्वेषः, पुत्रमरणकथनावितथवादिनो भद्रबाहोर्वराहं प्रत्युपदेशः, भद्रबाहुं प्रति वराहस्यादरश्च । जन्मानन्तरं राज्यान्तरसङ्क्रामितस्य प्रभाकरनाम्नो वराहप्रथमपुत्रस्य पाटलिपुत्रागमनम् , आकाशमत्स्यपतननिमित्तकथने पुत्रपराभूतस्य वराहस्याग्निप्रवेशारम्भोपरमौ च । कुकुटाख्यानकम् । मारणोद्यतयमभीतस्य शक्रगरुत्मच्छरणगतस्य रक्षगोयतशकादेशाद् देवमेंरुगुहायां सुष्टुरक्षितस्यापि
कुक्कुटस्य बिडालान्मरणख्यापकं लौकिकाख्यानकमिदम् । ११०. यादवाख्यानकम् ।
द्वारिकावर्णनम् , नेमिजिनसमवसरणम् , सपरिवारस्य कृष्णस्य धर्मोपदेशश्रवणं च । द्वारिकानाश-स्वमरणविषयकृतकृष्णप्रश्नोत्तरे 'द्वीपायनाद् द्वारिकानाशो जराकुमाराच्च तव' इति नेमिजिनकथनम् । भ्रातृवधपापरक्षार्थ जराकुमारस्य कौशाम्बवनवासः । द्वारिकारक्षार्थनगरबहिःक्षिप्तमदिरापानमत्तशाम्बादिकुमारकदर्थितीपायनकृतं द्वारिकानाशनिदानम् , कृष्ण-बलभद्रकृता विफला द्वीपायनक्षमापना, द्वीपायनस्याग्निकुमारदेवत्वेनोपपातश्च । पुनर्नेमिजिनस्य समवसरणं धर्मदेशना च । शाम्बादिकुमार-रुक्मिण्यादिदेवीनां प्रव्रज्याग्रहणम् , द्वीपायनजीवदेवकृतो द्वारिकादाहश्च । द्वारिकादाहोवृत्तयोर्हरि-हलिनोः पाण्डुमथुरां गच्छतोहस्तिनापुरपरिसरे बुभुक्षितं कृष्णं मुक्त्वाऽऽहारग्रहणार्थनगरप्रविष्टबलभद्रकृतो धार्तराष्ट्रसैनिकपराभवः । ततोऽग्रे कौशाम्बवने तृषितं कृष्णं मुक्त्वा बलभद्रस्य जलानयनाथ गमनम् , प्रसुप्तस्य कृष्णस्य वामपादे हरिणभ्रान्त्या जराकुमारकृतो बाणक्षेपश्च । स्ववाणविद्धं भ्रातरं कृष्णं ज्ञात्वा जराकुमारस्य परितापः, कृष्णादेशाद् जराकुमारस्य पाण्डुमथुरां प्रति क्षिप्रं प्रयाणम् , कृष्णमरणं च ।
३०७ ३०८-११
३११-२१ ३११-१४
३१४
३१४-१६
३१६
३१७
३१८-१९
३१९-२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org