________________
तश्च कीदृशम् ? -
तथा हि
१३. नमस्कारपरावर्तनफलाधिकारे गोकथानकम्
स्वेच्छया रममाणश्च तं प्रदेशं कथञ्चन । गतवान् गोवृषो यत्र पूर्वजन्मन्यभूत् स्वयम् ॥९०॥ दृष्टपूर्वो मयेत्येवं तदावारककर्मणः । क्षयोपशमयोगेऽस्य जातिस्मरणमुद्ययौ ॥९१॥ कवा मयाऽनुभूतोऽयमित्येवं तत्र चिन्तनम् । कुर्वाणः स्वल्पकर्मत्वादज्ञासीत् प्राक्तनं भवम् ॥९२॥ अस्मिन् स्थाने मया चीर्णं पीतमस्मिन्निहाऽऽसितम् । अमुत्र भ्रान्तमेतस्मिन् सुप्तमेवमबोधि सः ॥ ९३॥ केवलं न विजानाति यथा कर्णामृतोपमः । दत्तः पञ्चनमस्कारः केनापि स्निग्धबन्धुना ॥९४॥ व्यचिन्तयच्च स्वल्पोऽपि धर्मः कल्याणकारकः । यत्प्रभावादहं प्राप्तो रम्यां राज्यश्रियं क्षणात् ॥ ९५ ॥ परं किमेतया कृत्यप्राप्तयाऽपि परार्थया । दैवयोगाद् वियुक्तस्य महाभागेन तेन मे ? ॥९६॥ उपकुरुते यः पूर्वं सतावत् साधुसत्तमः । प्रत्युपकारलिप्युर्यो मन्येहं सोऽपि नो महान् ||१७|| पूज्य महोपकारित्वात् स तावत् किं विकल्पितैः ? । प्रत्युपकारं विना तस्य समाधिः केन मे भवेत् ? ॥९८॥ ततो यदि कथञ्चित्तं जाने जन्मान्तरप्रियम् । राज्यार्धं संविभज्यास्मै भविष्यामि निराकुलः ॥ ९९ ॥ चिन्तयित्वा मनस्येतत् निवृत्तोऽसौ गृहान् प्रति । यथावृत्तं स्ववृत्तान्तं पित्रादिभ्यो न्यवेदयत् ||१००|| तैरप्यूचे कुमार ! त्वं मास्म भूरुन्मनाः क्वचित् । सत्कुड्यादौ क्वचिच्चित्रे चरितं लिख्यते तव ॥ १०१ ॥ मा कश्चित् कोऽपि लिखितं दृष्ट्वा तच्चरितं निजम् । जातिस्मर्तृत्वतः सर्वं विद्यात् पूर्वभवान्तरम् ॥१०२॥ पित्रादिभ्यस्तकवाक्यं निशम्य वृषभध्वजः । युक्तियुक्तं गुणोपेतं व्यक्तं तुष्टोऽभवत्तराम् ॥ १०३ ॥ तस्मिन्नेव सदुद्याने तुङ्गत्वजितमन्दरम् । मन्दिरं सुन्दरं जैनं कारयामास कालचित् ॥ १०४ ॥
Jain Education International
कचिद् व्योमाङ्गणं यद् विराजत्तारचन्द्रकम् । कचिद् रामांहियुग्मं वा तुला कोटिविभूषणम् ॥१०५ क्वचिद् भोजनशालावद् भास्वत्स्पष्ट करोटकम् । कचिन्नरेन्द्र कोशाभं विचित्रामलसारकम् ॥१०६ ॥ जम्बूद्रीपोपमं विष्वग् जगतीपरिवारितम् । स्वर्गाचलेन सङ्काशं भद्रशालेन वेष्टितम् ॥१०७॥ जगत्यां च क्वचित् कुड्ये मुमूर्षुवृषभश्रुतौ । नमस्कारं ददत् कश्चिच्चित्रे व्यालेखि मानवः ॥ १०८॥ नियुक्ताश्च नरास्तत्र यः कश्चिच्चित्रमीक्षते । पृच्छति वा तमाचड्वं ममेत्येवं विशेषतः ॥ १०९ ॥ पङ्कजास्योऽपि तत्राऽऽगात् कदाचिद् रामणीयकम् । जिनागारस्याथ पश्यंश्चित्रमैक्षिष्ट विस्मितः ॥११०॥ नियुक्तांश्च प्रयत्नेन पप्रच्छ प्रीतिपूर्वकम् । भद्राः ! केनेदमालेखि ? तेऽप्यूचुर्यद् यथास्थितम् ॥ १११॥ अत्रान्तरे समाहूतो नियुक्तैर्वृषभध्वजः । तद्वचश्च निशम्यासौ शीघ्रं तत्र समाययौ ॥ ११२ ॥ समायालेन तेनापि पङ्कजास्यः प्रसन्नधीः । जनानां वर्णयन्नुच्चैर्विचित्रं चित्रचेष्टितम् ॥ ११३॥ पियूष वृष्टिसात् तत्त्वदृष्टेः दृष्टो जनः प्रियः । समुन्नतो हरंस्तापमम्भोद इव के किना ॥ ११४ ॥ सस्नेहं सादरं चाऽभ्यां प्रतिपत्तिर्यथोचिता । निर्वर्तिता यथावृत्तं प्रस्तुतं च निवेदितम् ॥ ११५ ॥ तस्मिन् क्षणे तयोः सौख्यं सञ्जातं यत् परस्परम् । तदन्यस्मै समाख्यातुं पार्यते न मनीषिभिः ॥११६॥ इत्थं राज्यश्रियं श्रेयःकृत्येषु रतयोस्तयोः । भुञ्जानयोर्विधानेन गतेनेहाक्रियामपि ॥११७॥ प्रवर्धमानप्रणयौ पार्श्वे धर्मरुचेर्मुनेः । अणुत्रतादिकं धर्मं लब्ध्वा देवौ बभूवतुः ॥ ११८ ॥ ईशाननामके कल्पे भुक्त्वा तत्र चिरं सुखम् । सुग्रीवो रामदेवश्च जज्ञाते जनताप्रियौ ॥ ११९ ॥ नमस्कारफले चास्मिन् ज्ञेयं पूर्वभवानुगम् । वस्तुतो रामचन्द्रस्य वृत्तमेतत् कथानके ॥१२०॥
धनदत्तस्य यो जीवः प्रकृत्या शान्तमूर्तिकः । रामदेवः कलाभिज्ञो विज्ञेयः स विचक्षणैः ॥१२१॥ वसुदत्ताहृयो यस्तु धीरो धीरपराक्रमः । असहिष्णुर्मानवान् जीवो लक्षणस्य स लक्ष्यताम् ॥१२२॥
For Private Personal Use Only
१३३
www.jainelibrary.org