________________
१३२
आख्यानकमणिकोशे
तथा हि
नानालङ्कारसुग्रीवं रामसैन्यमिवानघम् । विन्ध्यारण्यमिव प्रोच्चैश्चामरोपनिषेवितम् ॥६॥ नृपास्थानमिव व्यक्तमुल्लसत्कविकं पुरः । विशिष्टश्रुतिसम्पन्नं सैद्धान्तिकमनःसमम् ॥६२।। निर्दोषधारया युक्तं तीक्ष्णखड़गकृतोपमम् । प्रशस्तलक्षणोपेतं शब्दशास्त्रविदं यथा ॥६३।। विहितस्फारशृङ्गारो रम्यालङ्कारधारकः । सद्वेषः सुहृदाधारस्तमारुह्य विनिर्ययो ॥६४॥ क्वचित् प्लुत्या क्वचिद् गत्या क्वचिद् वेगेन वीङ्ख्या । क्वचिद् वाहयता भ्रम्या तेनारजि सुहृज्जनः ॥६५॥ ततोऽपि बहिरुद्यानं प्राप्तवान् नन्दनायम् । तत्रैकं गोवृषं वृद्ध पश्यति स्म स सन्नयः ॥६६॥ दुर्बलाङ्ग गलन्नेत्रं विरूपं विकृताननम् । विपर्यस्तं बृहच्छ्वासं विनिर्यन्मूत्र-गोमयम् ॥६॥ चतुर्भिश्चरणैभूमी सविलेखैर्विलक्षणैः । छन्दःश्लोकमिव भ्रष्टच्छायं कुकविना कृतम् ॥६॥
मुमूर्षु तं विनिश्चित्य संवेगागतमानसः । निर्वेदाच्चिन्तयामास सर्वस्यापीदृशी गतिः ॥६९॥ तथा हि
क्व गतं युद्धमेतस्य ? क्व तादृग ढेक्कृतं गतम् ? । क्व गतं रूपलावण्यमहो! वस्तु विनश्वरम् ॥७०॥ तदस्य म्रियमाणस्य करोमि कुशलाशयः । जन्मान्तरहितं किञ्चिन्नमस्कारप्रदानतः ॥७॥ अभ्यर्णीभूय कणेऽस्य संसारार्णवतारिका । वर्णनीयातिगा कर्णे दत्ता पञ्चनमस्कृतिः ॥७२॥ गौरप्यमंस्त कोऽप्येष ममाकारणबान्धवः । पीयूषवर्षकल्पं मे प्रवेशयति कर्णयोः ॥७३॥
तथाऽयं भावनासारं नमस्कारः श्रुतो गवा । तत्प्रभावेन येनासावुदपादि नृपान्वये ॥४॥ तथा हि
तत्रैव नगरे राज्ञः सन्नीतेनिहतद्विषः । सप्तच्छदस्य शुद्धान्तसाराया भुवनश्रियः ॥७॥ देव्याः कुक्षिसरःकोडे राजहंससमप्रभः । शारदाभ्रस्फुरच्छुभ्रकीर्तितारो विचक्षणः ॥७६॥ कुमारगोरीसम्पन्नः सभूतिः सविनायकः । महेश्वरश्च स नाम्ना प्रसिद्धो वृषभध्वजः ॥७७॥ ज्ञान-विज्ञान-सौभाग्यगुणरत्नमहोदधिः । विज्ञातशास्त्रसद्भावो यौवनं प्राप्तवानसी ॥७८॥ यथैवं भावतः स्मृत्वा गौर्गतो गतिमुत्तमाम् । तथान्योऽपि स्मरन्नेनां नरः कल्याणमश्नुते ॥७९॥ अहो ! माहात्म्यमेतस्याः स्पष्टं पञ्चनमस्कृतेः । यया गौरप्ययोग्योऽपि जज्ञे राजाङ्गजो गुणी ॥८॥ यद्वा न किञ्चिदाश्चर्यमचिन्त्यं दृश्यते भुवि । कस्यचिद्वस्तुनो वीर्य व्यक्तं वाचामगोचरः ॥८॥
यत:--
स्वल्पाक्षरोऽपि सन्मन्त्रो निगृह्णाति महाग्रहम् । स्वल्पोऽप्यग्निकणो दाह्यं दहत्येव प्रदीपितः ।।८२।। कल्पद्रमः कनिष्ठोऽपि कल्पितं राति देहिनाम् । मनाति न महानागान् कनीयानपि केसरी ? ||८३॥ यथैतल्लोकवस्तूनां सामर्थ्यमवलोकितम् । विशेषेण तथा दृश्यं मन्त्रस्य परमेष्ठिनाम् ।।८४॥
तथा हि
यम्यासवो व्रजन्यत्र नमस्कारसमाःस चेत् । मोक्षं कथञ्चिन्नो यायादवश्यममरो भवेत् ।।८५||
किञ्च
पन्नगः पुष्पमाला स्यात् स्थलं च जलधिर्भवेत् । अग्निः शैत्यमवस्कन्दद्यायाच्छत्रुश्च मित्रताम् ॥८६॥ एवं स ज्ञान-विज्ञान-सौभाग्यगुणसम्पदाम् । भाजनं भुवने जज्ञे यौवराज्यपदोचितः ॥८६॥ अथान्येद्युम्तदेवासौ सहेलं वाहयन् हयम् । मित्रादिपरिवारेण प्रधानेन समन्वितः ॥८८॥ पूर्वाभिहितमुद्यानं प्राप्तवान् प्रीतमानसः । रम्यत्वात् तत्प्रदेशानामितश्चेतश्च सञ्चरन् ।।८९॥
१. ०रच्छत्रकीर्ति-२० । २. सम्भूतिः२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org