________________
१३१
१३. नमस्कारपरावर्तनफलाधिकारे गोकथानकम् येनाधर्मफलं सर्वमेतदाख्यान्ति सूरयः । विशेषतः पुनः स्त्रीणां पापभावेन तद्यथा ॥२६॥ वैधव्यं बालभावेऽपि दीर्भाग्यं शीलखण्डनम् । अनाथत्वं च वैरूप्यं पैशुन्यं दुष्टभाषणम् ॥२७॥ ततः कुरुप्ब सद्धर्म मत्साहाय्येन निर्वृता । जन्मान्तरेऽपि येनैवं न भवेद् दुःखभाजनम् ॥२८॥ सा पुनः पापकर्मत्वाद् धर्म निन्दति पापिका । गुणिनां च गुणान् द्वेष्टि साधूंश्च हसति स्वयम् ॥२९|| ततोऽसौ संसृती प्रायः सञ्जाता दुःस्वभाजनम् । अयोग्यस्य गुणाधानं विधातुं कोऽथवा विभुः ? ॥३०॥ ततो वैधव्यदुःखेन मृताऽसौ स्वायुषः क्षये । कुरङ्गी समभूत् पापान्मृत्वा ती च कुरङ्गको ॥३१॥ सहैव जायते ताभ्यां कर्मवैचित्र्ययोगतः । वैरानुबन्धभावेन मृत्युभावं प्रपद्यते ॥३२॥ हरिण्या हारिणे भावे महिप्या माहिपे भवे । हस्तिन्या हास्तिके जन्मन्यन्योन्यं तो मृति गती ॥३३।। एवं वैरानुबन्धेन त्रयोदश भवानम् । तस्याः प्रयोजने रौद्रध्यानतो निधनं गतौ ॥३४॥ यथाऽनयोरियं जाता निमित्तं दुःखसन्ततेः । तथाऽन्यस्यापि नारीयं प्रायोऽनर्थपरम्परा ॥३५॥ यद्यप्यसौ क्वचिद गीता कारणं सुख-दुःखयोः । अतत्त्वदर्शिभिः कैश्चित् सामान्येनैव तद्यथा ॥३६॥ सत्यं जनाः! वच्मिन पक्षपातो, लोकेपु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ।। तथापि वासनामात्रं सौख्यमस्यां न तत्त्वतः । बडिशामिषवत् तुच्छं ज्ञेयं पर्यन्तदारुणम् ॥३८॥ धनदत्तश्च भव्यत्वाद् दृष्ट्वा तच्चेष्टितं तयोः । वैराग्यान्निर्गतो गेहाद् भ्राम्यन् गामेकया दिशा ॥३९॥ पीडितः क्षुत्-पिपासाभ्यां प्राप्तो राजपुरं क्रमात् । विलोक्य व्रतिनः कांश्चित् तत्राऽऽचाररतान् निशि ॥४०॥ मुमुदे मानसेऽत्यन्तं तोषाच्च समचिन्तयत् । धन्याः सुलब्धजन्मानः पुण्यवन्तश्च केऽप्यमी ।।४।। अजानानस्तदाचारं ययाचे भोजनादिकम् । तैरूचे भद्र ! नास्माकं निःसङ्गत्वादुपाश्रये ॥४२॥
ध्रियते धान्य-पानादिवस्तु रात्री विशेषतः । तवापि पापहेतुत्वान्न युक्तं रात्रिभोजनम् ॥४३।। यत उक्तम्
स कालः कश्चिदत्रास्ति यत्र नैवोपभुज्यते । हित्वाऽकालं ततः काले यो भुञ्जीत स धर्मवान् ॥४४॥ आयुर्वर्षशतं लोके तदर्ध स उपोषितः । करोति विरति धन्यो यः सदा निशिभोजने ॥४५।। घटिकाध घटीमात्र यो नरः कुरुते व्रतम् । स स्वर्गी किं पुनर्यस्य व्रतं यामचतुष्टयम् ।।४६।। जीवितं देहिनां यस्मादनेकापायसङ्कुलम् । कथञ्चिद् दैवयोगः स्यान्नक्तं सोऽनशनी भवेत् ॥४७|| श्रुत्वेदं भाषितं तेन धर्मः सर्वज्ञभाषितः । अणुव्रतादिकः सर्वो जगृहे जन्मिनां हितः ।।४८|| पालयित्वा स्वकं धर्म भावना-ऽभ्यासयोगतः । सम्यग्दर्शनसम्पन्नः सौधर्मेऽभूत् सुरोत्तमः ॥४९॥ पञ्चप्रकारमौदार्यसारं वैषयिकं सुखम् । सुरस्त्रीभिः समं तत्र भुक्त्वा द्वे सागरोपमे ॥५०॥ रत्नपुञ्जयुतैरट्टैर्जनैः सद्रत्नभूषणैः । यथार्थनामतां बिभ्रदासीद् रत्नपुरं पुरम् ॥५१॥ तत्राभूल्लोकमध्यस्थः प्रोत्तुङ्गः सुमनःप्रियः । नामतोऽन्वर्थतश्चापि ख्यातो मेरुप्रभो वणिक् ॥५२॥ स्वश्च्युतोऽसी समाधुर्यः सुकोशोऽभ्रमरोचितः । प्रियमित्र : पवित्रोऽस्याभूत् पङ्कजमुखः सुतः ॥५३॥ वर्धमानो जमुक्तः सत्पत्रो मन्दिरं श्रियः । स्पृष्टो मित्रकरैः श्रेयानुजजम्भे जनप्रियः ॥५४॥ क्रमेण सरसाहारो निप्पङ्कः साईतास्पदम् । पूजनीयार्चनप्रहः प्रौढभावमुपागतः ॥५५॥ सम्मतो राजहंसानामालयो गुणसन्ततेः । भूषणं वंशसरसो विश्रुतो नालसङ्गतः ॥५६॥ द्वासप्ततिकलाभिज्ञो धर्ममार्गे विचक्षणः । क्रमेण वर्धमानोऽसी सम्प्राप्तो यौवनश्रियम् ॥५७|| मेरुपमेण मित्रोऽसौ पङ्कजास्योऽभ्यधाय्यदः । वत्स ! वाह्या अमी अश्वा विनश्यन्ति विसूत्रिताः ॥५८|| विनीता जातिसम्पन्नाः स्बभर्तुर्भद्रकारिणः । संवाह्याः पोषणीयाश्च सच्छिप्या इव वाजिनः ॥५९|| अङ्गीकृते पितुर्वाक्ये विनीतत्वाच्च दक्षिणात् । ढोकयामास तत्पत्तिरश्वमेकं महागुणम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org