________________
[ १३. नमस्कारपरावर्तनफलाधिकारः ।] व्यायातमागमश्रवणफलम् । साम्प्रतमागमश्रवणसामग्र्यभावे नमस्कारपरावर्तनं विधेयमित्यनेन सम्बन्धेनाऽऽयातं नमस्कारमाहात्म्यं प्रचिकटयिपु राह
नवकारपभावेणं जीवा पावंति परमकल्लाणं ।
गो-पड्डय-फणि-मिठा सोमपह-सुदंसणा नायं ॥१७॥ व्याख्या--'नमस्कारप्रभावेण' पञ्चपरमप्ठिमन्त्रमाहात्म्यस्वरूपेण हेतुभूतेन ‘जीवाः' प्राणिनः प्राप्नुवन्ति' लभन्ते 'परमकल्याणं' प्रधानसुखम् । दृष्टान्तानाह-गौश्च-वृषभः पड्कश्च-सैरभेयः फणी च सर्पः मिण्ठश्च-हस्तिपकः गो-पडुक-फणिमिण्ठाः । तथा सोमप्रभश्च ब्राह्मणः सुदर्शनश्च-श्रेष्ठी सोमप्रभ-सुदर्शनौ च । चस्य गम्यमानत्वादित्यक्षरार्थः ।।१९।। भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि । तत्र तावद् गोकथानकमाख्यायते । तच्चेदम्
समस्ति स्वर्गसङ्काशरामणीयकभासिता । भासिता_लिहोदारदेवसद्मविराजिता ॥१॥ जितानुपमसौन्दर्यधामरम्यालकासमा । समानमानवावासदृश्यमानमहामहा ॥२॥ महत्त्वगुणविख्यातनिर्णतिगुणवैभवा । बै भवानीसमा कारवारयोषिल्लसज्जना ॥३॥ सज्जनानाविधाभ्यासपण्डिताभ्यस्तसत्कला । कलावित्सन्मनोहृद्या हृद्या क्षेमपुरी पुरी ॥४॥ तस्यामासीन्नयावासो नयाभिज्ञो नयप्रियः । नयदत्ताहयः श्रेष्ठी श्रेष्ठं कर्म समाश्रितः ।।५।। शील-सौन्दर्यसम्पन्ना दानानन्दितसज्जना । वसुनन्दाहया भार्या तस्यासीद वर्यवंशजा ॥६॥ स्वच्छाशयः सदाचारः सत्यवाक् शिष्टसम्मतः । धनदत्ताहयः पुत्रस्तयोर्जज्ञे जनप्रियः ।।७।। द्वितीयोऽपि मनाग मानी माननीयो मनस्विनाम् । बभूव वसुदत्ताहः सुतः स्वभ्रातृवत्सलः ॥८॥ अथ तत्रैव दुष्टात्मा दौर्जन्यप्रकृतिर्द्विजः । नानायज्ञावनिः पापात् पापमित्रमभूत् तयोः ॥९॥ तथाऽन्योऽपि नृणां मान्यो मानिनीनां मनोहरः । श्रेष्ठी समुद्रदत्ताहस्तत्राऽऽस्ते स्मयवर्जितः ॥१०॥ तस्य सौन्दर्य-लावण्यनिर्जितामरसुन्दरी । कन्यका गुणवत्यस्ति मन्दिरं यौवनश्रियः ॥११॥ तेन सा विधिवद् दत्ता धनदत्ताय धीमते । समक्षं सर्वलोकानां ललामरमया समम् ॥१२॥ तत्रैव श्रीपतित्वादिगुणैः श्रीकान्त इत्यदः । यथार्थतां नयन् नामापरोऽप्यस्ति वणिक्सुतः ॥१३॥ तेन सम्मान-दानादिगुणैरावर्जितो निजाम् । तां सुतां दत्तवांस्तस्मै विलोप्य वचनं स्वकम् ॥१४॥ विरूपं पश्य कीदृशं तादृशापि सता कृतम् । यदेकस्मै सुतां दत्त्वा तामन्यस्मै प्रदत्तवान् ॥१५॥ पुरतः शिष्टलोकानामात्मनो लाघवं कृतम् । प्रसिद्धव्यवहारश्च सतामेवं विलोपितः ॥१६॥ एतच्च तेन मित्रेण पिशुनत्वान्निवेदितम् । वसुदत्ताय यद्वा कः स्वभावं मोक्तुमीश्वरः ? ॥१७॥ उत्पासितश्च तेनासौ वचोभिः कोपदीपनैः । न युक्तो मानिनामेवं सोढुं शक्तौ पराभवः ॥१८॥ प्रकृत्या रोषणश्चैकं द्वितीयं तेन रोषितः । विरुद्धश्चिन्तयामास मानवान् मानसे निजे ॥१९॥ मा जीवद् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥२०॥
आः ! पापेन विना कार्यमनार्येण दुरात्मना । प्रागप्यन्याय्यचर्येण पर्यणायि कथं छलात् ? ॥२१॥ भार्या भ्रातुर्ममानेन वैरिणेत्यतिरोषतः । गत्वा खड्गप्रहारेण प्रापितोऽसौ परासुताम् ॥२२॥ तेनाप्यसौ तथैवाऽऽशु मृत्युवक्त्रे प्रवेशितः । तावेचं कार्यतस्तस्य मृति प्राप्तौ परस्परम् ॥२३॥ सोऽयं वज्राग्निदाहस्य मुर्मुराग्निकणोपमः । राम-रावणयोराद्यः प्रारोहो वैरशाखिनः ॥२४॥ अथानेन प्रकारेण तयोर्मृत्युमुपेयुषोः । स्वपित्रा गुणवत्युक्ता विषादं पुत्रि ! मा गमः ॥२५॥
तत्रैव दूणां मान्य नामरसुन्दरा । सम
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org