________________
३. शीलमाहात्म्य वर्णनाधिकारे रोहिण्याख्यानकम्
६१
शब्दमुच्चारयद्भिः सानन्दं दत्ता: समकालं जनैर्हस्ततालाः 'समुत्तीर्णा सीता तदारूढा । ततो रामदेवोऽपि सीतामागच्छन्तीं सरः श्रिय मिव विलसत्कमलाध्यासितां विस्फुरद्धारतारपयोधरां निर्वर्ण्यमाननिर्मलाधरां समानन्दितराजहंसां समालोक्य भविष्यतीयं तथैव प्रणयपात्रमित्यनुरागवशात् शृङ्गारवान् तथा मामनुचितकर्मकारिणं विशिष्टजना उपहसिष्यन्तीति सविलक्षहास्यसहायः, कथमियं मया निर्दयेन शिरीषकुसुमसुकुमारशरीरा कष्टमेवंविधं कारितेति सकरुणः, तथा कदाचिन्मामपराधकारिणमभिनिवेशादवगणय्य कश्चिजनकादिः यदि स्वीकरिष्यति ततस्तमुपमर्यापि ग्रहीष्यामीति रौद्ररसाविष्टः, तथा अत एव कारणाद् यद्यसौ जनकादिः मया सह संग्रामयिष्यति ततः खड्गबलेनापि तं पराजित्यामुमङ्गीकरिष्यामीति वीररसप्रवरः, तथा निष्करुण ! भवतु त्वया सह सङ्गमेन दृष्टं मया तव स्नेनुमध्यं को म्रियमाणानां मरिष्यतीति स्त्रीजनसुलभमाग्रहमवलम्ब्य मम प्रार्थयमानस्यापि वचनमवमंस्यत इति सभयः, तथा धिक् त्वां जीव ! विषयपरवशेयमात्मनो विशुद्धिनिमित्तमेवमध्यवस्यति त्वं पुनरद्याप्येतन्निमित्तं रणादिकं करोषि किमेतस्य श्यामलजम्बालपूर्णशरीराया मध्ये त्वया दृष्ट[ म् ? इति ] बीभत्सरस परवशः, तथा पश्य शीलमाहात्म्यमस्या येन तत्प्रभावाज्ज्वलज्ज्वालाकलापजटि[ ल ]ज्वलनादप्यक्षतशरीरा निर्गतेत्यद्भुतरसानुगतः, तथा धन्याः पुण्यवन्तस्ते केचन ये एवंविधं विषमस्वभावं प्रेमापहाय प्रव्रज्यां प्रतिपद्य शान्तमूर्त्तयः तपः समाचरन्तीत्यभिनवनवरससङ्कीर्णतामनुभवन् यावन्न किञ्चिद् जल्पति तावत् सर्वजनसमक्षं विधाय शिरसि कराञ्जलिं भणितं सीतया प्रभो ! त्वत्प्रसादान्मयाऽनुभूतं राज्यसुखम्, आरूढा पुष्पक विमानम्, पूरितानि कौतुकानि, यत् पुनरीदृशानि व्यसनानि तत्र न तेऽपराधो नाप्यन्यस्य कस्यचित्, ममैव जन्मान्तरजनितस्य कर्मणो विलसितम् साम्प्रतं भीताऽमुतो व्यसनशतभीमाद्भवचासात् मुञ्च माम्, प्रव्रजामि, मदीयं भवतो निखिलनागरिकनर-नारीनिकरस्य च मिथ्या दुष्कृतमिति प्रशस्तपरिणतिरूपं तद्वचः श्रुत्वा प्रत्यागतचित्तः पूरितगलसर णिर्विगलिताश्रुलोचनः संस्मृत्य तया सह विलसितं संस्तम्भितमूर्तिर्मूच्छितः । यावत् तं चेतनां लम्भयन्ति तावत् सीताऽनुकूलकर्मपरिपाट्या तत्र प्रस्तावे पूर्वमेव समवसृतः सार्वभूतिसूरिः । तेन च प्रव्राज्य समर्पिता सुप्रभप्रवर्तिन्याः । तत्र चासौ षष्ठाऽष्टमादितपश्चरणशोषितशरीरा परिपाल्याऽऽत्मानमिव निष्कलङ्कं प्रव्रज्यापर्यायं पर्यन्ते सम्यक्प्रतिपन्नप्रायश्चित्ता पञ्चपरमेष्ठिनमस्कारस्मरणपरायणा प्रतिपद्यानशनं प्रवर्धमानप्रशमपरिणामा मृत्वा प्राप्ता द्वादशकल्पपीयूषपायिप्रभुपदवीमिति । यथा च शेषं बिभीषणपृष्टतस्याः कलङ्ककारणं राम-रावणयोर्वैरनिमित्तं सुग्रीव-रामदेवयोस्तु प्रतिबन्धकारणं तत् सर्वं रामदेवचरिताद् इहैव वा किञ्चिद् भणिप्यमाणनमस्कार फलप्रतिपादनपरगोकथानकादवसेयम् ।
॥ सीताख्यानकं समाप्तम् ॥१४॥
पालिपुत्तम्मि पुरे कामिणिमणकमलमहुयरजुवाणो । नन्दो नाम नरिंदो तिव्वपयाचो दिणमणि व्व ॥ १ ॥ तत्थ नरेसरपज्जंतपउरसम्माणमंदिरं आसि । चंदो इव समयजुओ घणावहो नाम वरसेट्टी ||२|| विष्फुरियकंतिजुत्ता वरचित्ता तरलता रया कंता । तस्स मयलंछणस्स व नामेणं रोहिणी भज्जा ॥ ३ ॥ अवरं च तस्स आबालकालपरिपालियं हिययदइयं । मज्जार-सालहीणं जुवलं भवणम्मि संवसर || ४ || अह अन्ना निसाए संजाया सेट्टिणो मणे चिंता । उवभुंजिरं न जुज्जइ जणस्स जणणि व्व जणयसिरी ॥५॥ ते च्चिय जियंतु भुवणेक्क भूसणा माणवा गुणगरिट्ठा | जे नियविद्वत्तदविणेण दिति दाणं अणाहाण || ६ || खज्जन्ती परिवद्धइ कंडू न उणो कयाइ धणरिद्धी । ता दविणज्ञणकज्जे उज्जयिव्वं सुपुरिसेहिं ||७|| इय चिंतिऊण पउणीकाऊण कयाणगाणि बहुयाणि । दविणज्जणिक्कचित्तो पयंपए पणइणिं एवं ॥ ८ ॥ ससिवयणि ! मज्झ गमणं होही देतंतरग्मि दचिणकए । तुमए अपमत्ताए भवणं परिरक्खियव्वमिणं ॥ ९ ॥ अवरं च सुयणु ! मज्वार - सालहीजुयलमिममईवपियं । संभालेज्जसु तिक्कालमेव संभासणाईहिं ॥ १० ॥ छणहरिणलंछणा मलसीलं रमणीयणस्स निच्चं पि । मंडणमकित्तिमं ता पालेयत्र्यं पयत्तेण ॥ ११ ॥ तो सालहीए भवणं भलाविरं पणइणि विसेसेण । मज्जारं पि हु नियकरयलेण अंगे परामुसिउं ॥ १२ ॥
१. ०त्तीर्णा तीरं तदा रं० । २ प्रशमपरि रं० ।
इदानीं रोहिण्याख्यानकमारभ्यते । तच्चेदम्
Jain Education International
For Private Personal Use Only
www.jainelibrary.org