________________
६०
आख्यानकमणिकोशे
भणिता च रामदेवेन-देवि! क्षमस्व ममैकमपराधम् , पालय सह पुत्राभ्यां राज्यम् , अनुभव पञ्च कारं विषयसौख्यं विधाय शुद्धिमात्मनो जनसमक्षम् . सर्व भवदीयमिदं हस्त्यश्वरथादीति । तयाप्यभिहितम् --आः मायाविन् ? कियदद्यापि सन्तापयसि, भवतु भवत्वमीभिरधरान्तरजल्पितैः, पर्याप्तं मम विषयसौख्येन यत् पुनरवादीः 'शुद्धिं विधाय' इति तत्र प्रगुणाऽहम् , किं मम सकलङ्काया जीवितेन ? येन केनचिद् दिव्येन जनः प्रत्येति तदहमङ्गीकरोमि, परं किमन्यः शरीरसापेक्षैः कातरजनाचरितैर्दिव्यैः ? मम तावदयमभिप्रायःप्रविशामि ज्वलज्ज्वालाकलापजटिले महति विभावसौ, यदि ततोऽहं शुद्धा सार्धषोडशकवर्णिकावर्णनीयस्वर्णमयशलाकेव निर्गता ततः प्राणान् धारयामि । ततो जनेन प्रतिपन्ने खानिता हस्तशतत्रयप्रमाणा चतुरमा वापी । पूरिता निरन्तरं निविरीशसारश्रीषण्डादिप्रधानकाप्टैः। तद्नु च स्नाता स्वच्छश्रीषण्डविलेपनविलिप्ततनुर्निवसितधवलबसमा सरस्वतीव विद्वज्जनमान्या महासती सीता समागता चितासमीपे । श्रावितं च तया स्मृत्वा भगवन्तं व्यसन-शतनीरनिधिनीरनिमग्नजन्तुसन्ताननिस्तारणसमर्थ सबहुमानं निजमानसे पञ्चपरमेष्ठिनमस्कारं कौतुकवशागतसबालवृद्धनगरीजनसमक्षम् -'भो भो लोकपालाः शृण्वन्तु भवन्तः, श्रूयतां प्रतिपन्नसर्वज्ञशासनसत्त्वसन्तानत्राणरसिके शासनदेवि ! यदि मया रामदेवप्रभुं निजपतिं स्वजनकजनकदत्तं मुक्त्वा मनसाऽप्यपरं पुरुषान्तरमभिलपितं ततोऽयं भगवान् कृशानुर्यदुचितं तत् करोतु' इति वदन्ती स्वकीय] शुचिशीलभरवसन केन भयरहिता सरभसमुपसृत्य सीता समारूढा पश्यतां पौराणां द्वादशकल्पप्रभुपदवीमिव परमप्रभावकाष्ठां पुण्यचिताम् । दृष्टा च कृतपद्मासना पद्मेव पद्मासना पौरजनेन । तदनु च भणितं पुरवृद्धैः--अहो ! केनाप्युपायेन मुखतरेणापि शुद्धिरभविष्यत् किमनया एवमध्यवसितम् ? यदि वा सुकरमेवैतद् मिथ्यारोपितकलङ्कानां महासत्त्वानां सत्त्वानाम् । भणितं च
लज्जां गुणोघजननी जननीमिवामित्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ अभिहितमपरैर्मध्यमवयोभिः-राजानः खल्वेते मस्तकमध्येन वर्तिनी कुर्वन्ति, कि केनापि करी कणे ध्रियते ? करभो वा करण्डके क्रियते ? अन्यथा किमेवंविधं पात्रमेवं विडम्ब्यते ? । अभाणि च तरुणनरैः--नूनमयं राजा मूर्यो य एवविधं देवानामपि । दर्लभं भोगयोग्यं च कलत्रं विनाशयति । प्रोक्तं च पौरवृद्धाभिः-भगवन् वैश्वानर ! शोधय सीताम. अम्मजीवितेनापि चिरं जीवत. निजभर्तुर्भागभाजनं भवत्विति । अवादि च मध्यममहेलाभिः--आ मातः ! किमनया मूर्त्या एवंविधं पापं क्रियते । जल्पितमुच्छखलतरुणीभिः -हला हलाः ? पश्यत सीतासदृशी नान्या नारी रूपवती, तत् किमेषा जनापवादभीता म्रियते? वश्चयत्यात्मानं खादन-पानेभ्यः, मृता मृतैरपि न दृष्टाः ।
सर्वथा स्वहितमादरणीयं, किं करिष्यति जनो बहुजल्पः ? ।
विद्यते हि न स कश्चिदुपायः, सर्वलोकपरितुष्टिकरो यः ॥१॥ अत्रान्तरे सीतावचनेन दत्तः समन्तादग्निः । तदनु च सीताशोकेनेव श्याममुखैमॆघपटलैरिव व्यापे परितः पीयूषपायिपदवी धूमनिवहैः । पश्चाच्च विद्यच्चमत्कारैरिव कृतान्तजिह्वाकरालैानशे अनिमिषवर्त्म ज्वलज्ज्वलनजटिलैालाकलापैः । अत्रान्तरे समुत्थितो हाहारवः–'हा ? मन्दभाग्या वयं क्व पुनरपि सर्वज्ञप्रतिमाया इव शान्तनयनायास्तव मुखं देवि ! द्रक्ष्यामः ?' इति प्रलपितुं लग्नाः पौरजनाः । 'हा वत्से ! पुण्यविकला वयं किल वृद्धभावं त्वत्साहाय्येन गमिप्यामः' इति मनोरथा विफला अभूवन्निति बहुप्रकारं प्रलपितुं लग्मा अपराजितादयः । 'हा मातमातः ! किलाहं तव यावज्जीवं विनयं करिष्यामि, रावणमारणप्रयासो निष्फल: सञ्जातः' इति सदुःखं सराजचक्रश्चक्रन्द सुचिरं चक्रधरो लक्षणकुमारः । किं बहुना ? तत्र प्रस्तावे स कोऽपि नास्ति यो न तदुःखेन दुःखितो मुक्त्वैकं वज्रकठोरहृदयं रामदेवमिति । एवं यावद् आक्रन्दन्ति तावत् क्षणेन दृष्टा वापी पुण्यवत्पुरुषभवनपरम्परेव कमलालया, क्वचिन्महाराजसभेव राजहंससमन्विता, क्वचिद् रम्यरामाकटिस्थलीव सारसनादितगुणरमणीया, क्वचिद् गगनवीथीव विलसन्मकराकीर्णा, क्वचिद् महाराजसेनेव यन्त्ररथविराजिता, क्वचित् स्वर्गपुरीव हरिशोभिता । यावत् क्षणाद् दृष्टं पद्ममेकं ईश्वरभवनमिव विलसत्पत्रम् , गगनाङ्गणमिव सन्मकरन्दराजितारकविलासरमणीय, मुनिवृन्दमिव विभ्रमरहितं, सिंहस्कन्धपृष्ठमिव विलसत्केसरम् । दृष्टा च तदुपरि सुखसमासीना मन्दभाग्यानां दुर्लभा सकलजननयनानन्ददायिनी लक्ष्मीरिव सीता । ततश्च 'अहो ? शुद्धा शुद्धा' इति समुच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org