________________
३. शोलमाहात्म्यवर्णनाधिकारे सीताख्यानकम् अकार्ये तथ्यो वा भवतु वितथो वा किमपरं, तथाप्युच्चैधाम्नां हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रवेम्तादृक् तेजो नहि भवति कन्यां गत इति ॥१॥
माहात्म्यभ्रंशभीतो जानन्नपि निदोषां सीतामरण्यान्यां त्याजितवान् । तस्यां च दुष्टश्वापदायामळ्यामेकाकिनी सुकुमारसर्वावयवा गर्भभारालसा भयभीतमानसा मूच्छीमगमत् । तदुपरमे च 'हा तात ! हा मातः ! हा भ्रातः !' इति बहुप्रकारं प्रलप्य मनाग विवेकवशादेवं चिन्तितवती-जीव ! क ते देव-गरवः ? व ते जनकादयः स्वजनाः ? क्व तद राज्यमुखम् ? इति, ईदृश एव चायं लोकः । यत:--
जन्म-जरा-मरणभयैरभिद्रुते व्याधि-वेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥१॥ तथा
पुनरपि सहनीयः कर्मपाकस्तवायं, न खल भवति नाशः कर्मणां सञ्चितानाम् ।
इति सह गणयित्वा यद् यदायाति सम्यक् , सदसदिति विवेकोऽन्यत्र भूय: कुतस्ते ? ॥१॥ किश्च रे जीव ! विपत्प्रचुरे संसारे वर्तमानः किं विषद्भ्यो विभेपि ? तथा हि
संसारवर्त्यपि समुद्विजते विपदभ्यो यो नाम मूढमनसां प्रथमः स नूनम् ।
अम्भोनिधी निपतितेन शरीरभाजा संसृज्यतां किमपरं सलिलं विहाय ? ॥१॥
पुनरपि मोहवशाद् 'आः पाप जीव ! किं न म्रियसे ? कियदद्यापि जन्मान्तरनिर्वतितं पापमनुभवनीयमस्ति येनैवं निर्दोषोऽपि दुःसहं स्वजनतः पराभवं सहसे ? । तथा हि
दृष्टा बन्धुविपत्तयः परिजने सीदत्यपि प्राणितं यातं भग्नमनोरथैः प्रणयिभिर्याच्नागिरः शिक्षिताः ।
यद्यद्यापि न तोषमेपि भगवन् ! धातस्तदादिश्यतां शक्ताऽहं प्रियजाविता स्वजनतः सोदु निकारानपि ॥१॥
इति दैवमुपालभमाना दृष्टा तदनुकूलकोदयात् सर्पक्रीडकपुरुषेणेव नागसंयमनाय समागतेन स्वकीयपितृस्वसृजेन वज्रजङ्घनरपतिना। नीता च तेन सगौरवं निजनगरीम् । स्थिता च तत्र मनाकु सुखिता नीतिरिवार्थ-कामौ, धर्मपरिणतिरिव स्वर्गा-ऽपवर्गों, सद्गुरुसेवेव समयपाठ-परमार्थी, कुलीनसङ्गतिरिव विनय-वर्णी, पात्रदानपरिणतिरिवेहलोक-परलोको, समस्तलक्षणोपेती पुत्रौ सुपुवे । तौ च क्रमेण निरुपद्रय-निरपायगिरिनिकुजालीनो चम्पकपादपाविव प्रवर्धमानौ क्रमेण चाभ्यस्तकलाकलापौ रमणीमनोमोहनं यौवनमनुप्राप्तौ। परिणायिती मातुलेन रतिरूपाः कन्यकाः । साधिताश्च ताभ्यां स्वपराक्रमेण दुःसाग अपि देशाः । कालेनाशीर्वाददानपुरःसरं नारदेन योधितौ जनकाभ्यां सह पुनरपि तेनैव निवेदितवृत्तान्तौ प्रणतौ प्रणयप्रधानं पादयोः । प्रवेशितौ च प्रवरजयवारणस्कन्धसमारूढी ध्रियमाणश्वेतातपत्रौ दोधूयमानशरच्चन्द्रचन्द्रिकारुचिरचामरयुगौ तदीयलावण्यामृतरसं नयनाजलीभिः पिबन्तीभिः पौरवनिताभिर्वर्ण्यमानी 'हला हलाः ! पश्यत पश्यत ताविमौ सीतापुत्री, यकाभ्यामुदरस्थिताभ्यां सीतादेवी बने मुक्ता इति प्रजल्पन्तीभिर्नागरकवधूभिर्वर्ण्यमानौ सदाख्यातकृत्प्रकरण-चतुष्कालङ्कृतं शब्दव्याकरणमिव राजभवनम् । अथादृष्टपूर्व गुणवस्त्रियपुत्रसमागमजनितमनाख्येयमानन्दमनुभवन् रामदेवो विज्ञन्तो विभीषणादिभिः-देव ! धर्मक्रियेव करुणाविकला, सुगुरुकुलावस्थितिरिव भक्तिरहिता, राज्यस्थितिरिव नीतिविनाकृता, तनुरिव दृगपाकृता, रसवतीव लवगरसवत्तां त्याजिता, शास्त्रसम्पत्ति रिव प्रशमपरिणतिपरित्यक्ता, महिलेव अपत्यसन्ततित्यक्ता, विभवसम्पत्तिरिवाहतिनिर्मुक्ता, गन्धर्व-विद्येव तालमानक्रियारहिता, शेषगुणसमन्विताऽपि नगरी इयं देवीं विना न शोभते तत् प्रसादं विधायाऽऽनीयतामिति । ततस्तदुपरोधेन प्रेषिताः प्रधानपुरुषाः तैरपि सविनयं प्रणम्य भणिता सीता । यथा-देवि ! त्वदानयनाय देवेन रामदेवेन वयं प्रेषिताः; तयाऽप्यभिहितम्-कोऽयं रामदेवः ? पर्याप्तं मम तन्नाम्ना, रामदेवतरुच्छायायामपि नाहं विश्राम्यामि, किमहमद्यापि न लभे सुखेन स्थातुम् ? इति। तैरप्याग्रहं विधाय समानीता।
१. मानाद् विवे० रं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org