________________
आख्यानकमणिकोशे नद यदि तदीयकर-चरणानुकृतनवदिनकरकिरणकरम्बितत्वदीयवालपवाला बालामस्मिन्नरण्ये सञ्चरद्दष्टश्वापदभीषणे भ्रमन्ती भवान् क्वचिदैक्षिष्ट ततो विस्पष्टमाचष्टां मद्यमण्दष्टकर्मकृतकष्टाय' इति तमशोक पप्रच्छ । अथो अतुच्छस्वच्छपयःसम्भाररङ्गत्तरगावलीविलसत्कलकृजितकलहंस-कुरर-कारण्डव- चक्रवाकप्रभृतिपतत्रिचक्रवालविराजकमलसरोवरावतंसायमानाऽमन्द मकरन्दरसलुभ्यदभ्रमरमालालेलिह्यमानमेकं नीलोत्पलमदर्शदवादीच
अरे रामाहस्ताभरण ! भसलश्रेणिशरण !, म्मरक्रीडाब्रीडाशमन ! विरहिप्राणिदमन ! । सरोहं सोरंस ! प्रवरदल ! नीलोत्पल ! सखे ! सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना ? ॥१॥
इत्यादि बहुविधं प्रलपन् यावदास्ते तावत् सम्बकुमारमरणप्रादुर्भवत्पराभवमहासमरसंरम्भपराजितापरराजखरदूषणत्रिमुण्डराजगजघटासंघट्टनिर्भयप्रादुर्भवत्सुझटमण्डनप्रभविष्णुजिष्ण भटपरम्परा-(पराभवोपलब्धजयश्रीसमालिङ्गितविग्रहः पर्यन्तितविग्रहो लक्ष्मणकुमारस्तं प्रदेशं प्रापत् । अथ तदवस्थं रामदेवं समालोक्य 'धिक कष्टम् , किममुप्यासह्यं दुःखमजनि येनायं विह्वलो विलोक्यते ?' इति परिभावयतस्तस्य रामदेवः सोत्कण्ठं कण्टग्रहं कृत्वा 'हा वत्स ! हता हतविधिना, मुषिता मन्दभाग्या वयम् , यतो भवदभ्रातृजाया केनाप्यपहृता' इति मुक्तमहासूत्कारमरोदीत् । लक्ष्मणोऽपि तत् श्रुत्वा शोकवशाद् ध्रियमाणोऽपि रामदेवेन बलाद् मूर्छया भुवः पृष्ठे पपात । पुनरप्युपलब्धचेतनोऽनेकधा प्रलप्य स्वयमेव सत्त्वमवलम्व्य 'स्वामिन् ! मा व्रज विषादम् , ईदृशमेवास्य संसारस्य .. स्वरूपमसारमिति ।
अपरं च
गतं मृतमतिक्रान्तं न शोचन्ति विपश्चितः । गतं गतमतिक्रान्तमतिक्रान्तं मृतं मृतम् ॥१॥ तथा च
संसारे वसतामिह कुशलं किं पृच्च्य ते शरीरभृताम् ? । पतितस्य दहनराशौ दग्धोऽसि न वेति कः प्रश्नः ? ॥२॥
इति चिरन्तनमुनिवचनै रामदेवं स्वस्थयाञ्चकार । ततश्च जन्मान्तरसम्बन्धविटसुग्रीवविनाशनोपकाराभ्यां मिलितसुग्रीवादिसमग्रवानरसैन्यः सीतान्वेषणाय हनूमन्तं लङ्कायां प्राहिणोत् । यथा च तेन सुभटशिरोमणिना आसालीव विनाशनेन प्रकटितात्मना सानन्दरावणकान्तापरिवृता कृशतनुनिष्कलङ्का तारान्विता द्वितीयाशशिकलेव. सीताऽवलुलोके । समाश्वासिता च रामदेव-लक्षणकुमारकुरालवानिवेदनेन । भणिता च 'मातर ! आरोह मम पृष्ठे, किं करिप्यति मम रावणः ? नयामि निजस्वामिपावें स्वाम्' इति । अभिहितं च तया-'नाहं वत्स ! एवमागमिप्यामि, त्वं पुनः शीघ्रं गत्वा आर्यपुत्रादीनां निवेदय कुशलोदन्तम्, अक्षताऽहं देहशीलाभ्यां तिष्ठामि' इति सीतया प्रेषितः । तदनु च तेन समुत्पत्य गगने विधूय बाहुपञ्जरं 'कथमहं पचनाङ्गजो हनूमानिहायातो ज्ञाम्ये ?' इति मनसि विचिन्त्य उपवनतरुभञ्जनेन तद्रक्षःकुमारादिगञ्जनेन तैस्तैः प्रकारैः सीतामनोरञ्जनेन नागपाशत्रोटनेन रावणपराभवसम्पादनेन विजजृम्भे। यथा च प्रासादतोरणानि भक्त्वा राक्षसभटानां मुखे धूली दत्त्वा पश्यतामपि लङ्कानगरीतो निर्गत्य रामदेवं प्रति प्रत्याववृते । प्रत्यावृत्त्य च यथा तेन हनूमता गगनचारिणा दीर्घसन्तापहारिणा विशिष्टसम्पत्तिकारिणा समुन्नतेन घनेनेव विलसत्कलापं पर मुत्कं केकिकुटुम्बमिव रामदेवादिनृपवृन्दममृतवर्षिणेव सीतावृत्तान्तनिवेदनेनाऽऽनन्दितम् । यथा च तं श्रुत्वा त्रिवलीतरङ्गभीषणललाटपट्टेनैकैकेनाहङ्कुर्वता सम्भूय रामदेवादिभटसमूहेनापारपारावारमतिक्रम्य हंसद्वीपे सेनां निवेश्य रावणेन सह योद्धुमारेभे । यथा च महासमरसंरम्भसम्मर्दैन विनाश्य रावणम् , अभिषिच्य लंकाया राज्ये विभीषणम् , स्थित्वा च कियन्तमपि कालम् , मत्वा च नारदवचनाद् मात्रादिवर्ग बहुवर्पसमुद्भूतप्रभूतवियोग[ दुःख ]दुःखितम् , निर्वाहितनिजप्रतिज्ञः साधं च
ज-वानरेन्द्रचमूचक्रेण, समारुह्य च सह जानक्या रणन्मणिघटितघण्टारवाडम्बरं पुष्पकविमानम् . 'प्रिये! पश्य समुद्रोऽयम्' इत्यादि वस्तुजातं दर्शयन् , तेनैव पथा विभीषणपुनर्नवीकृतां शत्रुभिरयोध्यामयोध्यामाजगाम । तत्र च बन्धुजनपरिवृतः सुग्रीवादिसमस्तभटविभाजितदेशो निष्कण्टकं राज्यसुखमनुभवन् महाजनात् सीतापवादमाकर्ण्य वज्राभिहत इव
१.कि-२० । २. ता मुद्रार्पणेन च राम०९।३. प्रेषितः चूडारस्नः । तदनु-२०।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org