SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ केचिद्धीतिसमन्विता दुतपदं दूरं ययुः केचन तस्थुस्तस्कलहावसक्तमनसः सद्यः फलं लेभिरे । मर्माघातगतासवो यमपुरं प्रापुविलापाश्रयाः केचिद्रक्तसरित्प्रवाहपतिताः स्थानान्तरं प्रापिताः ॥ हन्त हन्त विबुधा अपि सन्तः स्वाग्रहग्रहवशाद्विवदन्तः । हिंसनेऽपि विदुषां प्रसजन्ति तद्वचः सुनितरां च हसन्ति ।। प्राकलण्य मनसेति स धीरः संजगाद जनतामतिवीरः । नकदृष्टिपरिदर्शनगम्यं वस्तुरूपकथनं परिरम्यम् ।। ( ७) शास्त्रार्थप्रभवां विनिन्द्यविषयां शास्त्राथिहिंसां सुधीः दूरीकर्तुमुरीकरोतु मनसा स्याद्वादविद्यामिमाम् । नानादृष्टिसमन्वयेन सुतरां या दर्शयेत्सत्यतां तस्यां कः कलहोऽथवा सुमनसां हिंसाप्रसङ्गोऽधमः ॥ (8) निशम्य तद्वाचमुवाच लोकः समागतो यः पुरतः स्थितश्च । स्याद्वादविद्या परिशीलनीया शास्त्राथिना सत्यगवेषकेण ॥ धूमस्पर्शभियेव वासरमणिलिल्ये क्वचिद्व्योमनि संजात प्रलयभ्रमाद्दश दिशो दिक्पाललोकान् ययुः । लोका व्याकुलमानसाश्च सहसा वीरं विभुसंश्रिताः स प्राह प्रलयः कुतः ? प्रसृमरो यज्ञाग्निधूमो महान् ।। (१०) भेतव्यं न मनाग् यदत्र भविता यज्ञोऽश्वमेधाभिधः स श्लाघ्यो यदि हिंसया बलिजया हीनो भवेत्सर्वथा । हिसाऽधर्म इतीह सर्वविदितं धर्मश्च तद्वर्जनं तस्मान्मानवमात्रमत्र यजनं धर्माधयं संधयेत् ॥ (११) वीरस्य तद्वागमतं निपीय हर्षप्रकर्ष समवाप लोकः । तत्याज यज्ञप्रभवां च हिंसां यज्ञेषु तत एव रुखा । (१२) अहिसायाः परः पन्थाः स्याद्वादसरणिस्तथा । दशिता येन वीरेण वन्दनीयः स सन्ततम् ॥ श्री अमतलाल जैनः वाराणस्याः 2-2 महावीर जयन्ती स्मारिका 76 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014032
Book TitleMahavira Jayanti Smarika 1976
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1976
Total Pages392
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy