________________
* अहिंसायाः पूर्वपीठिका *
(१) अन्योन्यं प्रतिकूलशास्त्रपठनाल्लब्धावबोधा बुधाः संख्यातीतपरम्पराश्रितधियो जातास्तदा सर्वतः। स्वस्वग्रन्थविभूषितस्य वचसस्ते मेनिरे सत्यता तद्भिन्नस्य न सत्यतेति कथने नित्यं प्रवृत्तास्तथा ।।
सत्यस्यापि मदीयशास्त्रवचसोऽसत्यस्वमुद्घोष्यते यस्ते युक्तिपुरस्सरं स्वकथनं संसाधयन्त्वन्यथा । अद्यैव प्रविशन्तु मृत्युवदनं नश्चण्डदण्डाहताः श्रुत्वैवं दृढमानसाः कतिपये शास्त्रार्थभूमि श्रिताः ।।
योग्यस्थाननिवेशिताखिलजने प्राज्ञाभिरम्ये स्थले शास्त्रार्थाय समुत्सुका उभयतस्तस्थुर्जयाशाशयाः । तत्तकप्रतितर्कवज्रपतनान्नो निर्णयोऽजायत
तत्क्रोधात्करचण्डदण्डनिकरैश्चक्रुः प्रहारं मिथः । . छन्दांसि-शार्दूल विक्रीडितम् (१, २, ३, ४, ७, ६, १०); स्वागता (५-६); उपजातिः (6);
इन्द्रवज्ञा (११); अनुष्टुप् (१२) ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org