________________
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
अविद्याविच्छेदः, विज्ञानाद्वैतविभ्रमैकांतशून्यतैकांततत्त्वोपप्लवः ब्रह्माद्वैतशब्दाद्वैतवादिनः प्रति सामान्येन प्रमाणसाधनम्।
चार्वाकं प्रति अनुमानस्य प्रामाण्यम् ।
सौगतवैशेषिकौ प्रत्यागमस्य सांख्यं प्रत्युपमानस्य, नैयायिकं प्रत्यर्थापत्तेः प्रभाकरं प्रत्यभावस्य च प्रत्यभिज्ञारूपतया सौगत- सांख्य- यौग-मीमांसकान् प्रति आत्मनः स्वदेहप्रमितिसिद्धिः ।
मीमांसकयोगयोः शब्दस्यापौद्गलिकत्वसिद्धिः । योगे
द्रव्यत्वसिद्धिः ।
१९
ज्ञानस्य वक्तुं ज्ञानान्तरवेद्यता निराकृतिः । जगतो बुद्ध्यविकरणकारणतानिराकरणम् ।
ईश्वरस्य नित्यप्रयत्नज्ञानसिसृक्षाक्षतिः ।
इन्द्रियजज्ञानपक्षे सर्वज्ञत्वक्षतिः । गुणगुण्यादिभेदनिराकरणं, धर्माधर्मायोरात्मगुणत्वव्युदासः । समवायनिराकरणं व्यक्तिसर्वगतसामान्यनिषेधः । स्पर्शनरसन-प्राणचक्षुषां प्रत्येकमनिलसलिलेलानलारंभस्तंभः ।
शब्दस्य
श्रोत्रस्य नाभसत्त्वनिषेधः । तमोद्रव्यव्यवस्थितिः । चक्षुषः प्राप्यकारित्वप्रतिक्षेपः । चेतनासमवायादात्मनश्चैतन्यप्रच्युतिः । विशेषगुणनिवृत्तिलक्षणमोक्षविक्षेपः । निरूपाभावाभावः । चार्वाकान् प्रति आत्मनो अनादिनवतत्त्वसिद्धिः ।
Jain Education International
"
पृथिव्याद्यारब्धत्ववैधुर्यं च पुण्यपापसिद्धि:, ब्रह्माद्वैतवादिनश्च प्रति, सांख्यं प्रति प्रकृतिनिराकरणं प्रकृतिपुरुषपरिज्ञानमात्रान्मोक्षक्षतिः ।
सृष्टिसंहारप्रक्रियानिवृत्तिः, आत्मनो ज्ञातृत्वकर्तृत्वगुणत्वसिद्धिः मुक्तौ ज्ञानादिसद्भाव: - अभावसिद्धिः । भावैकान्तनिराकरणं, उत्पत्तिकार्यत्वसिद्धिः इन्द्रियाणां विषयाकारधारित्वव्यपोहः । योगान् प्रति कथात्रयभंगः, षोडशपदार्थप्रतिषेधः, षट्पदार्थप्रतिषेधः । छलादिनिग्रहस्थाननिल्लठनम् तथा कांश्चित् प्रति स्त्रीनिर्वाण केवलिभुक्तिनिराकरणे ।
एवं स्थूलवादा लिखिताः सूक्ष्मास्तु भूयांसः संति ।
For Private & Personal Use Only
www.jainelibrary.org