SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१० अवचूरिजुदो दव्वसंगहो द्लसरीरमत्यज्य शुभ्राकृतिः, प्रागुक्त देहप्रमाणः पुरुषो दक्षिणस्कंधान्निर्गत्य दक्षिणेन व्याधिदुभिक्षादिकं स्फेटयित्वा पुनरपि स्वस्थाने प्रविशति असौ शुभरूपस्तेजः समुद्घातः। समुत्पन्नपदपदार्थभ्रांते परद्धिसंपन्नस्य महर्षेर्मलशरीरमत्यज्य शुद्धस्फटिकाकृतिरेकहस्तप्रमाणः पुरुषो मस्तकमध्यान्निर्गत्य यत्र कुत्रचिदन्तर्मुहूर्तमध्ये केवलज्ञानिनं पश्यति तद्दर्शनाच्च स्वाश्रयस्य मुनेः पदपदार्थनिश्चयं समुत्पादयिष्यतः असावाहारसमुद्घातः। सप्तमः केवलिनां दंडकपाटप्रतरपूरणस्वभावः सोऽयं केवलिसमुद्घातः। स एव णिच्छयणयदो निश्चयनयापेक्षया, असंखदेसो वा असंख्याता लोकमात्रा वा शब्दोऽत्र स्फुटवाची इत्युक्तस्वदेहप्रमाणं प्रतिपादितः। जीवलक्षणं अनतानंतजीवास्ते च संसारावस्थाः भवंतीत्याह11) पुढविजलतेउवाऊवणप्फदी विविहथावरे इंदी। विग तिग चदु पंचक्खा तसजीवा होति संखादी। 12) समणा अमणा या पंचिदियणिम्मणा परे सव्वे । वायरसुहमे इंदिय सव्वे पज्जत्त इदरा य ॥' युग्मम् पुढविजलतेउवाऊवगप्फदी पृथिवीकायिकाः अपकायिकास्तेजकायिकाः वातकायिकाः वनस्पतिकायिकाश्च । विविहथावरेइंदी एते विविधाः स्थावराः एकेंद्रियाः, एतेषां किं स्वरूपम् "अंडेसु पवड्ढेता गब्भत्था माणुसा य मुच्छगया । जारिसया तारिसया जीवा एगेंदिया णेया ॥" [पञ्चा० गा० ११३] एतेषामनुक्ता अपि समारोप्य प्राणाः कथ्यन्ते । तदेकेन्द्रियस्य कति प्राणाःस्पर्शनेन्द्रियप्राणः कायबलप्राण उश्वासनिश्वासप्राण आयुप्राणश्चेति चत्वारः । ते चैकेन्द्रियाः बादराः सूक्ष्माः पर्याप्ता अपर्याप्ताश्च । एतेषां लक्षणं कथ्यते, वाग्गोचराः स्थूलाश्चिरस्थायिनो बादराः, अवाग्गोचराः सूक्ष्माः, प्रतिक्षणविनाशिनः सूक्ष्मसप्रतिघाता बादराः परैर्मूर्तद्रव्यैर्बाध्यमाना इत्यर्थः । अप्रतिघाताः सूक्ष्माः परैर्मूतंद्रव्यैरबाध्यमानाः । पर्याप्तापर्याप्तयोः स्वरूपमाह-आहारशरीरिद्रिय-आणप्पाणभाषामनसां परिपूर्णत्वे सति गर्भान्निर्गमणं पर्याप्तस्य लक्षणम् । एतेषामपरिपूर्णत्वे सति गर्भाच्च्यवनं अपर्याप्तस्यलक्षणम् । गर्भ इत्युपलक्षणमेतत् । नत्वेकेन्द्रिया ग्राह्याः । इयं गाथा लेखनीया । तत्रैकेन्द्रियस्य आहारशरीरस्पर्शनेन्द्रियाणप्राणाश्चत्वारः पर्याप्तयः। भाषामनसोराखणीयं (?) । पर्याप्तस्य षड्भिः परिपूर्णः । विगतिगचदुपंचक्खातसजीवा होंति संखादी। १. वादर। संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014029
Book TitleShramanvidya Part 2
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1988
Total Pages262
LanguageHindi, English
ClassificationSeminar & Articles
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy