________________
२५४
भ्रमणविद्या
व्यपदिश्यते । अतस्तमेवोपसंहर्तुमाह - चित्तेत्यादि । [ द्विपथकमेतत् । ] चित्तस्य स्वभाव : प्रकृतिस्तथता, तस्यैव बोधियो बोधिस्तत्त्वं न मलानाम् । ततस्तेषां क्षयेतदक्षयात् सुलभा बोधि: । ननु बोधिरनन्ता बुद्धधर्मास्ति कथं तत्वं तस्येत्यतशाह, वौडिहो इत्यादि । बोधेनंयस्तत्वं चित्तस्वभाव एव चित्ततयतैव, सेव हि बुद्धानां धर्मकायों बुद्धधर्माणामाश्रयत्वान्नतु बुद्धधर्माः । ते हि तस्य विभवो न स्वरूपम् । यदि तहि तथतैव तत्वमुभयोः सा च शून्यता द्वय भावः । द्वयस्य सदा सर्वत्र चासत्वादत्यन्ताभाव:, शशविषाणवत् । न चात्यन्ताभावो भावानां प्रकृतिः भवति, नापि तस्याः प्रत्यक्षीभावोऽप्रकाशात्मकत्वादित्यत आह- उभय इत्यादि । बोधिचित्तं च बोधिश्चेत्युभयम्, तस्य स्वभावस्तथता, तस्य चित्तं नयः परमार्थः द्वयरहितं चित्तमेव द्वयशून्यता तन्मात्रस्य भावप्रत्ययेन निर्देशात् । यदि तर्हि चित्तमेत्रशून्यता, चित्तं चादित एव भ्रान्तं सैव तस्य प्रकृतिरिति भ्रान्तिरेव बोधिः स्यात्, तच्चायुक्तम्, सवासन सर्वभ्रान्तिपरिक्षय लक्षणत्वात् । बोधिरित्यत आह- चित्तहो इत्यादि । आगन्तुका हि भ्रान्तिस्तान्निमित्ताश्च मलाः । स्वभावस्तु चित्तस्य खसम एव प्रकाशमात्रत्त्रात् आकाराणामसत्वात् कदाचिदस्तमयादपि कदाचिच्चासत्तयैव परिच्छेदात् । लौकिकलोकोत्तरत्पृष्ठलब्धासु चित्तावस्थासु यथाक्रमं यत एवागन्तुकामलास्तत एव सुलभाबोधिः । तत्रागन्तुकमन्नशुद्धिः साध्यते प्रकृति शुद्धिः सिद्धव । तन्त्रान्तरेषु पटलान्तरेषु च साधारणो योऽर्थस्तस्यद्योतकः पटलः ।
१.
संकाय पत्रिका - १
Jain Education International
क.
श्रीमत्तन्त्रं खसममनया यन्मयाभ्यर्च्य वाचा, प्राप्तं पुण्यं परिणतशरच्चन्द्रिका चारु कान्ति । तेनाक्षेप खसममसमं ब्रह्मजैनं व्रजेयम्, विश्वार्थाय प्रभवति गुणज्योतिषां यत्र योगः ॥
खसमायां खसमतन्त्रस्य टीकायां पञ्चमः पटलः ॥
समाप्ता चेयं खसमा नाम टोका ॥
कृतिरियं महापण्डितश्री रत्नाकरशान्तिपादानाम् ॥
२.
क. धे ।
For Private & Personal Use Only
www.jainelibrary.org