________________
खसमानामटीका
२५३
अस्थिरं नैव स्फारयेदिति । अस्थिरं स्फारयत्यस्मिन्न फलोभवत्यायासः फलं च नः लभेत् प्रयासरच भवेदित्यर्थः । अस्मिन् तन्त्रे सुलभा सिद्धिरिति ख्यापयितुं द्विपदीषट्क माह - सब्बेत्यादि । [ अन त्रिगणाः पादा: '] सर्व सस्यं यथा तं मया कथितं अति शेषः । सिद्ध प्रकृतिसिद्धत्वात् यानं बोधिमार्गः, सभावं सतस्वम् । अस्तु प्रकृतिसिद्धमिदं यानं चित्तं तु मलिनमस्माकमिति चेदाह - चितेत्यादि । [ द्विपथकस्य द्विपादकमेतत्' ।] चित्तं मा दूषयत खनमं प्रकृतिशुद्धत्वात्, समं तस्याः प्रकृतेरविक:रात् । कथमित्याह —यन्त विलिम्पति कोऽपि मलः, तस्यां प्रकृतौ मलानामागन्तुकत्वात्, आकाशे धूमतमोऽभ्रतुहिनवत् । जोइ इत्यादिना देवताबलमाह । [अत्र त्रिगणाः पाद: : ४ ]
योगिनः एषा भगवती चुन्दा आदिस्वभावा सर्वबुद्धानुत्पादयति भाविते' वज्रप्रभावे । प्रभावनं प्रभाव उत्पादनम् । सा चेबुद्ध (नुत्पादयति किं वज्रधरेणेत्यत आह-- देवीत्यादि । [अस्यां चतुर्गणाः पादाः ।] देवीनां देवस्य च वज्रधरस्य एक एव स्वभावः तस्य चैता विभूतयः बुद्धस्तहिकोऽर्थं इत्याह-- वज्रसत्वो भगवान् बुद्धानामेव प्रभावो विभवः सारः - धर्मकायस्वभावत्वात् । अत एव समूलं बुद्धानां काय द्वय संगृहीतानाम् । अनादिनिधनत्वाच्च धर्मकायस्य स एव मूलम्, तदेवं वज्रधरसंगृहीतानां त्र्यध्वबुद्धानां अधिष्ठानमिति देवताबलम् | आशयबलं मन्त्रबलं चाह - अणुणअ' इत्यादिना । अनुनयो मनसः सर्वसत्वेषु हितसुखाशयः । तस्य भावना तृतीयैकवचनस्य भावः, तया च सिद्धिरवश्यं हूँकारेण चानुनयार्थेन । तस्मादभिन्नपर्यङ्करजस्रमयमेव योगोऽभ्यसनोय इति सूचयन्नाह - हिअए अ इत्यादि । [ अत्र त्रिगणाः पादाः । ऊरुशब्दस्यान्तेऽपि दीर्घः । ऊरुर्मम व्यथते पादो मम व्ययते इत्येष ऊरुपादवितर्को मोघः फलविघ्नत्वात्, मोहो वाऽज्ञानप्रभवत्वात् । स हृदये न क्रियते हृदि कर्तुं न युज्यते । ननु सन्ति विघ्नास्तत्कुतः सिद्धिरित्यय - आह, वज्जेत्यादि इन्द्राग्निमयनैर्ऋतादयो दशसु दिक्षु भूतपतयः सपरिवाराः विघ्नकशः, त्रैलोक्यं तस्य चक्रं समूहः, तद्वज्रप्रभाभिः संयमितं हृद्वज्रनिर्गताः स्फरन्तोज्वलद्वज्राकारा रश्मयो वज्रप्रभाः ताभिः संयमितं निरस्तम्, ततो नात्र विघ्नाः प्रभवन्तीति भावः । क्रोधदेवतायोगे विघ्नघातो बलीयानिति, चेदाह - फार इत्यादि । | अत्रापि त्रिगणाः पादाः ।] स्फारयति योगी नभस्तलक्रोधदेवतानां कोटिसहस्राणि वज्जहो एक्कसहाव इति । वज्रधरादभेदाधिमोक्षेण पुनः संहरत्यवश्यं तानि वज्रस्वभावतयैव । एतच्च तन्त्रं खसमार्थप्रधानत्वात्तेनैव
१. ४.
Jain Education International
कोष्ठांशः भोटे नास्ति । कोष्ठांशः भोटे नास्ति ।
२. क. द्र । ५. क. भावे ।
For Private & Personal Use Only
३.
६.
कोष्ठांश: भोटे नास्ति । कोष्ठांश: भोटे नास्ति ।
संकाय पत्रिका - १
www.jainelibrary.org