________________
श्रमण विद्या
तुल्यस्वभावो बोधिचित्तमेव प्रकाशमात्रत्वात् धर्माणां आकाराणामलीकत्वात्, डे दे (?) विक्रियते भावः । अभ्यास' आशयो वा योगिभिरिति शेषः । भक्ष्यं भोज्यं शयनासनम् । सब्बउ इति सर्वेषामेषां योऽपि समाधिर्निरुक्तः, धर्मंद्रवोद्भू तश्चित्तमण्डलादिः । तस्य च एक एवं वा स्वभावो युतुत (यदुत) बोधिचित्तम् । अथायमुत्पन्नो रूपी वज्रसत्वः कथं द्रष्टव्य इत्यत आह- बुद्ध इत्यादि । [अस्याश्चतुर्गणाः पादाः अभावस्यादौ दीर्घत्वं २] बुबोधनत्वेन सर्वं पश्यता त्रीणि कायवाक्चित्तानि बोधिरूपाणि स्वभावोऽस्येति तथोक्तः। क्रियते दृश्यते, परमार्थतः । कीदृशः सर्वधर्माणामभावः खसमं ज्ञानं न ) स्वभाव : प्रकृतिरस्येति तथोक्तः आकाराणामसत्वादिति भावः । वज्रो वज्रधरस्तेन मायास्वभावः कथितस्तथापरिच्छेदात् । खसम होन्ति पडिहाइ सरूव । यस्मात् खसमः सन् रूपी च प्रतिभाति । अन्ये तु चतुर्थपादं न पठन्ति त्रिपादिकमेतदिति चाहुः ।
इत्यादिना फलमाह । [अस्यां त्रिगणाः पादाः " ] धर्मः स्वभावः । मायास्वभाव निरूपयता वज्रस्य धर्मकायस्य कृतः प्राग्भारोऽवतारः, अवश्यं तत्प्राप्तेः । विपर्यये दोषमाह - सत्त इत्यादिना । सत्वं रूपादिस्वभावं य एनं मन्यते स सत्वस्वभावः, तस्य नास्ति नो धर्मकायः । अथैनं चित्तमेव मन्यते तस्यापि चित्तस्यैतदेव स्थितं सारं न्याय्यं यदुत मायोपमत्वमाकाराणामलीकत्वात् । स्फरणसंहरणमधिकृत्याहअ इत्यादि । [ अनयोः पादाश्चतुर्गणाः ।] आदो तावच्चित्तं मेरुपर्वतसमं क्रियते । उन्नतविलप्रभासुरतया नातिविपुलं नाभ्युन्नतं विक्षेपप्रसङ्गात् । नान्धकारम्भ्या( ध्या) नसिद्धप्रसङ्गात् । पश्चात्तच्चित्तमुद्यते । सुद्धबुद्धेति केवलं बुद्धमयं सर्वतथागतस्फरणैर्व्याप्तित्वात् पश्चात्तच्चित्तं खिन्नं सत् स मन्त्री संहरति । तस्मिन् संहारे सती मन्त्री स्मरति ध्यायति । सर्वतथागतसंहारेण वज्रधरस्वभावं स्वचित्तं निरूपयेत् । पश्चाच्चित्तं मेरुसमं प्रज्वालयत्या लोकपिण्डरूपेण, तस्मिन्नालोकराशौ वज्रसत्वं (त्त्व)रूपेण चालयति, तद्देहकोटीशतसहस्रैः पूरणात् । पश्चादाकाशरूपं स्फारयति । वज्रधरवपुषां क्रमेण संहरणात् । एवं स्फरण संहरणयोः स्वरूपमित्युपसंहारः । तथागत संहारात् तथागता एंव स्फरन्तीति युक्तमिति चेदाह -- सिज्झ इत्यादि । [ अत्रायुजौ त्रिगणौ युज द्विगणौ ] तस्मिश्चित्ते सिध्यति वज्रसत्व एकरसेन सर्वतथागतसंहारेण अतरच स्फरणमप्युपपन्नम् । वज्रधरेण स्फरणस्य कालमाह - स्थिर इत्यादिना । [ अत्रायुजौ दशमात्रौ युजौ द्वादशमात्रौ ] स्थिरं स्फारयति योगी क. भ्यो. २. कोष्ठांशः भोटे नास्ति । ३. ख. द । ४. क. ह । कोष्ठांशः भोटे न सन्ति ।
१. ५-८.
संकाय पत्रिका - १
२५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org