________________
खसमानामटीका
२५१
भावेत्यादि भावो देहः तत्स्वभावस्य चित्तस्य नास्ति नयो मोक्षः विरोधात् । कीदृशो नयः ? यश्चित्तस्य खसनः स्वभाव:, प्रतिष्ठादेहभोगनिर्भासानां विज्ञप्तीनां सह बीजेन परिक्षयात् । संभारो' वेधसामर्थ्यात् । पुनः स एव देही भविष्यतीति चेदाह -- चित्तेत्यादि । मुच्यमानस्य चित्तं विशेषेण शुद्धयति अपुनरावृत्या क्षीयते । किं तत् पुब्बजिह यथापूर्वमुक्तः प्राक् भ्रान्तिर्भ्रान्तिनिमित्तप्रतिभासश्चासीत् । ततः किमि - त्याह-कह इत्यादि । कथं तस्य देहादेरपुनरावृत्या क्षीणस्य भावः क्रियते, नैव विरोधात् । एत ( वं) तर्हि चित्तस्याकारः प्रकृतिरेवास्तु । ततो विशुद्धमपि चित्तं देहाकारमुत्पत्स्यते । अत्राह - सिज्म इत्यादि । न चासौ भाव इति न चासौ देहः नयः परमार्थः सिध्यति वाह्यश्चित्तात्मको वा एकानेकस्वभावविरहात् । ततश्च चित्तमाकाशस्वभावमेव आकाराणामलो कत्वात् । अलीकख्यातिश्च भ्रान्तिः । न च मुक्तस्य चित्तस्य भ्रान्तिरस्तीति कुतस्तस्य देह : ? तस्माद् द्रवाद्धर्मकायादन्यदेव तन्निष्पन्दभूतं विज्ञानं देहादिप्रतिभासमुत्पद्यते, स्वाकारमलीकत्वेनात्मानं च मायोपमत्वेन परिच्छिन्दानमिति भावः । उपसंहरन्नाह - मज्झ इत्यादि । [ स्वार्थे कः, ] निर्विकल्पाद् विकल्पः, ततो देह इति । अनया युक्त्या मध्येऽन्तराले पदं वीजाक्षरं निरूपकम् । एवं मन्त्रव्यवहिताच्चित्तादविकल्पात् क्रियते भावो देहः । एवं वज्रसत्व उत्पद्यते चित्तमण्डलादिनानास्वभावः । सव्वसत्तपरिभाविअ किज्जइ मोक्खसहाव इत्युक्तम् । स च मोक्षश्चित्तमात्रमेकरसम् तत्कीदृशं भाव्यमित्याह -अच्छउ इत्यादि । अस्यां प्रतिपादं त्रयो गणाः । अच्छं प्रकृतिशुद्धत्वात्, निर्मलमागन्तुकमलक्षयात् । पानीयसाधर्म्यात् पानीयं प्रसब्धि ( प्रश्रब्धि: ? ) सुखद्रावितमित्यर्थः । तेत्थहो इति तस्मिन् वज्रसत्वोत्सादेन । लघुसीध्यं भावेन्तं इति तेन भावेन तेन देहीकृतेन । एम्मद एतन्मया । कहि अनिरुत्त, अकथ्यं कथितम् । [ वचेर्भावे क्तः । निष्क्रान्तमुक्तादिति निरुक्तम् |] अकथ्यं वज्जरहस्स इत्यादिना समयमाह । [अस्यां चतुर्गणाः पादाः सोमे इति ह्रस्व एकारः । आहारे इति आदौ ह्रस्वः सोमेनेति बोधिचित्तेन ] ४ भाव इति स्वदेहः । तहि इति तस्मिन् सति, वज्रोदकं मद्यम् । एवं स्वभावमिति बोधिचित्तस्वभावम्, चित्तसहाव इति वज्रसत्त्वयोगस्थः । धम्म इत्यादि । [ अनयोः पादास्त्रिगणाः' ।] धर्मः संघो वज्रोदकम्, इत्येषां तुल्यस्वभावः । वज्रोदकं हि बोधिचित्तं स एव धर्म आर्यमार्गत्वात् स एव संघः सवीर्यपुद्गलसंग्राहकत्वात् । वसादीनां च १. ख. रा । २- ५. कोष्ठांश: भोटे न सन्ति । ६.७.
ख. ह्य ।
संकाय पत्रिका - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org