________________
२५०
श्रमणविद्या
इत्यादि । सर्व एते एकस्वभावाश्चिन्त्याः । कथं पूर्ववच्चुन्दाकमलकणिकायां वैरोचनपरिणतकूटागारमध्यासनकमले वैरोचन-तत्स्वाभ भा)याः सुरतोद्भवद्रवे तयोविलये । उत्थाय चतुर्देवीविलयानन्तरं द्रवघनीभावजे 'चन्द्रे सितहूंकारजस्य सितवज्रधरस्य भावनात् । एकस्वभावाद् धर्मकायात् । वज्रनयों वज्रयानम् । योगपीठस्य तहि कोऽर्थ इत्याह-चुन्देत्यादि । भावानां सर्वधर्माणां यः स्वभावः प्रकृतिः शून्यता सा चुन्दा । वज्रसत्त्वः तत्र किं करोतीत्याह-तस्मिन् योगपीठे रूपी सदेहः सन् पश्यत्येकं स्वभावं भावानाम् । भावण इति भावना, वैरोचनः शाश्वतः । देविहो इति देव्याः (व्यः) सत्यः परमार्थो वज्री तस्योत्पत्तिम्, उत्पत्तिहि कायेन । कायश्च शाश्वतस्तस्मात् स एवोत्पत्तिमाचष्टे । कथमित्याह-एससी इत्यादि । द्विपदिकाद्वयं अत्रायुजौ चतुर्दशमात्रौ युजो द्वादशमात्रौ] ए इति योगी। ससिमण्डलमज्झट्ठिउ इति धर्मद्रवसंहारजस्य चन्द्रमण्डलस्य मध्ये स्थितं वज्रस्य वज्रधरस्य मन्त्रं वीजं सितहूंकारं वज्रं विभावयत्येकमनाः । तेन मन्त्रेण तिसृ इति प्रतिपार्श्वत्रिसूचिकं द्वादशसूचिकमित्यर्थः । जलन्तउं इति ज्वलत् [ क्वचित् पाठः। चित्तइ वज्जसहाव वज्जविभावइ एअमणा तिसृइ वज्जजलन्तउ इति । तत्रापि स एवार्थः । किन्तु तिस इति द्रुतेन चतुर्मात्रं यमकं च न स्यात् ] मज्जट्ठिअउं इति मध्यस्थितं स्वार्थे कः । वज्जसहावेति-वज्रधरमूर्तिम्, एम्मइ इति एवं मया वज्रनयो वज्रधरोत्पत्तिः । धम्मउं इति धर्माणाम् ।
खसमायां खसमतन्त्रस्य टीकायां कायमण्डलपटलश्चतुर्थः ।।
धर्मकायादेवदेवतोत्पत्तिरस्तु कि मन्त्रेणेत्याह-अभावे इत्यादि । [अत्र त्रीणि द्विपथदिकानि । चतुर्थं त्रिगणम् । अभावे इति द्रुतोच्चारणाच्चतुर्मात्रः ।] अभावोऽविकल्पः समाधिः, भावो देहः न भाव्यते न जल्प्यते, न हि स्वप्नादपि प्रवुध्यमानोऽनुत्पन्न एव विकल्पे धावति । तद्वद्धर्मकायादपि विना मन्त्रेण न देहोत्पत्तिः । अम्महो इति स्त्री सम्बोधनं भावयति निरूपयतीति भावो मन्त्रः । एअ इति एवं मन्त्रणेत्यर्थः । धम्मनिरूवज्जउ इति धर्म निरूप्यमाणे चित्तादिति मन्त्रव्यवहृतादविकल्पात् । भावो देहः चित्तहोभास इत्यादिना युक्त्यन्तरमाह । चित्तादेव निष्प्रपञ्चात् भावे देहस्य नास्ति नयो मोक्षस्तेन च कारणेन क्रियते भावो मन्त्रः । कुतो नास्तात्याह
१. क. न्द्र, भोटे न्द्र पाठः । २. ख. यौ इति अधिकः । ३-५. कोष्ठांश: भोटे न सन्ति । ६. क. ष ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org