________________
२४८
श्रमणविद्या
चाण्डालानां च तुल्य' स्वभावः विज्ञानमात्रत्वात्तेषां भेदकानामाकाराणामसत्वाच्च । अनेनोदाहरणेन बुद्धेन कथितो धर्माणां स्वभावः प्रकृतिः प्रकाशमात्रता खसमाः ।
ननु भावानामनेकोऽपि स्वभावः प्रतिभाससिद्धः, एकोऽपि अप्रकाशात्मनः प्रतिभासायोगात् । तत्कथमेकत्वं गीयते न नानात्वमित्याह-एअ इत्यादि । एकस्वभावश्चित्तमात्रता तस्य स्थितः सद्भावः परमार्थत्वात्, नानेकस्य कल्पितत्वात् । तस्मिन् सति कथयति वज्री तुल्यस्वभावम् । उदाहरणान्तरमाह-ब्राह्मणेत्यादिना । ब्राह्मणकुक्कुरावेकस्वभावौ। अस्थ्नोर्वेशस्य च कटककुण्डलादेर्मायाभूतत्वात् । [ वज्जपअं इति विलम्बितं कार्यम् । ] वज्रपदं दृढं रूपं चित्तमात्रता, तस्मिन् ब्राह्मण कुक्कुरादौ सत्यं परमार्थः । अथ तत्र तुल्यस्वभावः केन दृष्ट इत्याह-[ मइ जो इआ] मया दृष्टः । उदाहरणान्तरमाह--मुत्त इत्यादि । देवीं भादेवीं तहि इति तस्यामेकस्वभावतायाम् जोअ सभावेति [विलम्बितेन पूरणीयम् । ] योगः समाधिः । तहिं इति तस्मिन् योगे, सब्ब तुम्ह इति सर्वा यूयं चतस्रो देव्य इत्यर्थः । भावेन वज्रसत्वेन एकस्वभावाः सत्यः शोभन्ते। प्रभाव्यते सन्दर्शयते इति प्रभावः । शरीरं एकशरीरा इत्यर्थः तुल्ल इत्यादि । [ अस्यां प्रतिपादं चतुर्दशमात्राः ] तुल्यस्वभावेऽर्द्धद्रवत्वात् एकमना एकमन्त्रः । वज्जो विबुध्यतां वज्रसत्वो विबुध्यतां, एकजन एकाकी । मातापितरौ क्त्र गताविति चेदाह-तहिं इत्यादि । तस्मिन् धर्मद्रवे नष्टौ द्वेषतत्स्वभावौ अक्षोभ्यतद्विद्ये । अद्धाञ्जेनेति अद्ध शरीरेण धर्मस्य वज्रसत्वस्य प्रभावः प्रभावना। [केचिद् वाक्यमेवं पठन्ति-अद्ध अङ्ग इति तेषां चतुर्थः पादः षोडशमात्रः स्यात् । ] अपरमद्ध किमित्याह--बज्जदारु इत्यादि । [ अनयोः प्रतिपादं त्रयो गणाश्चतुर्मात्राः । वज्जहो इति ह्रस्वत्वेन चतुर्मात्रम्, गण इति बिलम्बितेन त्रिमात्रम् 1] वज्जदारा इति वज्रभार्या भादेवी तस्मिन् धर्मप्रभावने योगिना दोयते वज्रस्य वज्रधरस्य एकस्वभावा एकशरोरा, तेनैव सह स्वाभयैव वामाद्ध पूरणात् । कदा तस्योत्पत्तिरित्याहवज्जहो इत्यादि । वज्रस्य धर्मद्रवस्य रुणरुणायमानेन चतुर्देवीचतुर्गीतकेन वर्णनं स्तुतिः क्रियते यावत्तावत् । तदनन्तरमेव किं धर्मप्रभाव इति वर्तते । अथ चोदकं देवीचतुष्टयं क्व गच्छतीत्याह देवहो इत्यादि । देवस्य वज्रसत्त्वस्य वामेनोन ( वामेनार्धन ) भादेवीभागेनैकीकृत्य ताः पश्येदित्यर्थः । ननु वज्रसत्वोऽस्माभिर्भावनीयः इदं पुनरन्यदेव च न स्त्री न पुमानित्यत-आह, वज्जसत्तेत्यादि । वज्रसत्त्व एवायं
१. क. ल्यं । २-७. कोष्ठांशा: भोटे न सन्ति । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org