SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ खसमानामटीका २४७ ततः परमसुखसमर्पितमात्मानं मण्डलं च यावदिच्छं भावयेत् । ततो हृन्मन्त्ररश्मिमुखेभ्यः सर्वतथागतान् संस्फार्य जगत्तन्मयीकृत्य चित्तस्य विश्वरूपतां चिन्तयेत् । पुनस्तान् संहृत्य चित्तस्यैकस्वभावतां पश्येत् । अस्मिन् तन्त्रे समाधित्रयव्यवहारो न विद्यते, एक एवात्र समाधिमण्डल राजाग्री नाम | भावनया खिन्नो मन्त्रं जपेत् । विश्ववज्रवरटकान्तर्गतं हृदयमेव मन्त्रं हूँ, उपहृदयं वा अनुरागयामि उभयं वा अनुरागयाभि हूँ, सप्तदशाक्षरं वा ॐ महासुखवज्रसत्वजः हूँ वं होः सुरतस्त्वं अन्यद्वा यथार्हं मन्त्रविद्यादिकं जपेत् । ततः प्रणिधानानि कुर्यात् । समासतस्तु गाथाद्वयेनसर्वस्वं सर्वबुद्धानां महावज्रभृतः पदम् । एभिर्लभेयं कुशलैर्लम्भये पञ्च तज्जगत् ॥१॥ चर्या संबोधये या च संबुद्धानां च या पुनः । वर्णिता बोधिवत्रेण सा चर्या तु द्वयी मम ॥२॥ ततः स्वहृन्मन्त्रे तत्किरणाकृष्टं समयमण्डलमन्तर्भाव्य तत स्वदेव नाफटकारेण भूतचतुष्टये देवीचतुष्याधिमोक्षेण यथासुखं विहरेत् । अयमारम्भः प्रथमसन्ध्यायाम् । सध्यान्तरे तु झटित्यात्मानं सविद्यस्वदेवतारूपं सर्वनिष्पन्नमालम्ब्य स्वहृन्मन्त्रात् क्रमेण चतस्रो देवीरुत्सृज्य यथास्थानं निवेश्य कायाधिष्ठानादि सर्वं पूर्ववत् कुर्यात् । एवं पश्चिमसन्ध्यायां ज्ञानमण्डलं सम्पूज्यायं दत्वा ॐ वज्रमुरित्यनेन विसृज्य आत्मरक्षां कृत्वा समयमण्डलं स्वमन्त्रेऽन्तर्भावयेत् । निद्राकाले निराभासमनन्तं ज्ञानमामुखीकृत्य सुप्यात् । चतुर्देवी चतुर्गीतचोदितश्च निद्रात उत्तिष्ठेत् । एवं प्रत्यहं कुर्याद् यावत्सिद्धिनिमित्तानि पश्येदिति । चित्तप्रधानमण्डलं चित्तमण्डलं तद् द्योतकः पटलः । खसमायां खसमतन्त्रस्य टीकायां चित्तमण्डलपटलो द्वितीयः ॥ उत्थायात्मनि वाङ्मण्डलं वक्तव्यम् । वाक् प्रज्ञा, चित्तमुपायः, प्रज्ञोपाययोरद्वयीभावो वाङ्मण्डलम् तच्च प्रज्ञाप्रधानम् । ततः तद्भादेवीप्रस्तोतुमाह – दि इत्यादि । [अत्र तिसृणां द्विपदिकानां प्रतिपादं चत्वारो गणाश्चतुर्मात्रा : ' ।] द्विजा ब्राह्मणास्तेषां १. कोष्ठाशः भोटे नास्ति । Jain Education International For Private & Personal Use Only संकाय पत्रिका - १ www.jainelibrary.org
SR No.014028
Book TitleShramanvidya Part 1
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages402
LanguageHindi, English
ClassificationSeminar & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy