SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रमण विद्या स्वभावात्मकोऽहम् ॐ सर्वतथागतचित्तवज्ज्रस्वभावात्मकोऽहम् । चतुर्देवीनां स्तनान्तरचन्द्रस्थितसवर्णपञ्चसूकवज्रवरटकचन्द्रेषु स्वबीजं शिरःकण्ठहृच्चन्द्रेषु च प्रणवादीन् पश्येत् । ततः सर्वदेवतानां कायवाक्चित्तानि यथातत्त्वं खसमानि यथाकारमसत्वादनुत्पन्नानि निःस्वभावानि निश्चित्य गाथयाऽधितिष्ठेत् । २४६ ततो निजबीजप्रभाभिर्दशदिग्गतभिर्ज्ञानमण्डलमानीय पुरस्तात् अन्तरिक्षेऽवस्थाप्य स्वहृज्जप्त (ब्द ) मर्धं दत्वा अ: हूँ व होरित्येभिर्ज्ञानमण्डलमाकृष्य, प्रवेश्य, वद्ध्वा वशीकृत्य समयमण्डलं तेन सहैकीभूतं पश्येत् । ततो हृन्मन्त्रकिरणाकृष्टैस्तथागतैः ज्ञानाम्बु पूर्ण रत्न कलशधारिभिरात्मानं मण्डलं चाभिषिच्यमानमधिमुच्य तदम्बुनिष्पन्नान् देवतानां मुकुटेषु कुलतथागतान् पश्येत् । तत्रात्मनो जटामुकुटोपरि भगवन्तमक्षोभ्यमिन्द्रनीलनिभं भूस्पर्शमुद्रया स्थितं, ललाटोपरि वैरोचनं चन्द्रनिभं वध्यमुद्रा स्थित दक्षिणकर्णोपरि रत्नसम्भवं कनकवर्णं वरदमुद्रया स्थितं, ग्रीवापृष्ठोपरि अमिताभं पद्मरागनिभं समाधिमुद्रया स्थितं वामकर्णोपरि अमोघसिद्धि मरकता भमभयमुद्रया स्थितं चिन्तयेत् । एवं भादेव्याश्चतुर्देवी रत्नमुकुटोपरि यथाक्रमं वैरोचनाक्षोभ्यमितायुरमोघसिद्धीन् । ततो हृन्मन्त्रकिरणनिर्गताभिर्देवीभिः स्फरण - योगेन गगनतलव्यापिनीभिः भगवन्तं सपरिवारं पूजयेत् । ततो गुह्यपूजया पञ्चवीर्यपूजया च विधिवत् संपूज्य ॐ सर्वतथागतपूजावज्रस्वभात्मकोऽहमित्यधितिष्ठेत् । ततो गाथात्रयेण चतुर्देवीमुखैर्भगवन्तं स्तुय त् । पञ्चबुद्ध मउड स्सअ जस्स अ तिहुअणसार । आइबुद्धकअभावडो (हो) तस्सडो (हो) खसमपआर ॥१॥ कायाक्षरमनुत्पन्नं वाक्चित्त 'मलक्षणम् । खवज्रकल्पनाभूतं मिथ्या संग्रहसंग्रहमिति ॥ ( गु. स. १७-३६) संकाय पत्रिका - १ १. गु. स. पदेति पाठ : B.S.T. No. 9. Jain Education International पञ्चबुद्धमउडत स्सअ जस्स अ धम्मसहाव । वज्जसत्तपणवीअउ तिहुअणधम्मपाव ॥२॥ वज्जसत्तपणवान्तं पुण्ण वि होइ अनन्त । वज्जसत्तपपिज्जउ लग्भइ धम्ममहन्त ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.014028
Book TitleShramanvidya Part 1
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages402
LanguageHindi, English
ClassificationSeminar & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy