________________
खसमानामटीका
२४३:
एकस्माद्वीजात् धर्मद्रवाद् भावयतीति सम्बन्धः । तेनैव धर्मद्रवेण हूंकारपञ्चकं भावतयर्थः । किं तेनेत्याह- चैत्तेत्यादि । चित्तं नीलवज्रधरः, स मध्यगतो यस्मिन् तन्मण्डले सर्व भावयति । [ अपभ्रंशे हि सर्वशब्दस्य' श्रीणि रूपाणि, रेफलोपे कृते द्विवचनविकल्पः । असति द्विवचने पूर्वस्याकारस्य दीर्घत्वं वस्य च हत्वं वा । सब्ब साव साह ] कथं धर्मद्रवाद बीजपञ्चकभावनेत्याह-धम्म इत्यादि । [ अनुष्टुभमिदं पथ्यावक्त्रं नाम, अत्र च ।
लधुनी सह न स्यातां पादेषु प्रथमात् परे । अयुजोर्योयुजोर्जस्तु चतुर्थादक्षरात् परे ॥]
तथा भावना ।
मण्डलं कूटागारं तस्य मध्यस्थं यत् पद्मोत्तमं तस्मिन् भावना तथोक्ता धर्मस्य धम्ममण्डलमज्जाच्छपदुमुत्तमभावणा । तस्स चित्तअ इति । तस्य धर्मस्य चित्तकं भेदकं भावयतीति शेषः कणिकायां दिग्दलेषु च तस्य धर्मस्य चन्द्रारुढहूंकाररूपेण परिणामात् । ततः किं कुर्यादित्याह - माअ इत्यादि । अनयोः प्रतिपाद त्रयो गणाः मायास्वभावस्य सर्वस्य खलु रूपस्य निरूपणं कुरुतेति शेषः । चित्तस्य वज्रस्वभावस्यैकस्वभावं भो चिन्तयत वज्रनयम् । ननु चित्तस्य स्वरूपमेव वज्रनयो, नासौ मायेत्यत आह-चित्तहो इत्यादि । आकाराणामसत्वमेकानेकस्वभावविरह रहात्, तस्माच्चित्तं खेन सरूपम् । तस्य चित्तनयोऽस्वभावः वज्रनयस्य चित्तनयश्चित्तस्वरूपतोऽस्वभावोऽस्वरूपं मिथ्येत्यर्थः । ननु अन्यो वज्रो अन्यश्च वज्रनयः प्रतिभासभेदात्, तत्कथं एकस्वभावतेत्याह, उभय इत्यादि । नानास्वभावस्य नास्ति नयो न्यायः खसमे प्रकाशमात्रे आकाराणामलीकत्वात् । तस्मिन् विहारे सति वज्र एव खसम - वज्रधर एव स्त्रभावः, शेषं माया अलोकत्वात् । वज्जसत्त इत्यादि । [ अनयोः प्रतिपादं चत्वारो गणाश्चतुर्मात्रा : " । ] आद्यया कृत्रिमाकृत्रिमं रूपमाह, द्वितीयया चित्तवाग्गुह्ये हे वज्रसत्वत्वमेकस्वभावः । लोकनिमित्तं क्रियते मायास्वभावस्त्वयेति शेषः । कथमित्याह -- सत्तमित्यादि । विनीयन्ते सत्वा अनेनेति विनयो मूर्तिभेदः । सत्वान् बोधयति विनयस्वभावः । हे वज्रसत्व त्वमेकस्वभाव एव प्रकृतिः । देवी भादेवी । वोल्लइ वदति वज्ज वज्रधरं अडेगुह इति गुप्तं गूढम् चित्तवाग्गुह्यमित्यर्थः । अब्भन्तरे इति स्वहृदि रमन्त उं इति रममाणः । चित्तस्वभावेन चन्द्रमण्डलस्थविश्व
१. क. सर्वस्य । २,३. कोष्ठांश भोटे नास्ति । ४. क. ख. विनयो । ५. कोष्ठांश: भोटे नास्ति । ६. क. ग्र ।
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org