________________
२४२
श्रमपविद्या सो धर्मालोक आकाशसमा कुर्वन्ति वन्नास्तस्मिन् रूपसमा । रूपाविकामसुलाक्षपदी जलधीन्नतुल्यवहुस्तस्मिन् वज्रमया ॥
समरसीभूतः सर्वबुद्धानां धर्म एवालोकः प्रकाशरूपत्वात्, आकाशसमाच निराभासात् । तस्मिन्नाविभूय वज्रा वज्रसत्वा विकुर्वन्ति सत्वार्थधर्मान् दर्शयन्ति । किं ते रूपस्वभावानेत्याह-रूपसमा इति। रूपप्रतिभासमात्रत्वेन तैरात्मनः परिच्छेदात् । तेषां वज्राणां नयो मण्डलम् । तस्मिन् कीदृश इत्याहरूपादित्यादि। रूपादयः कामाः पञ्च तैः सुखमक्षयं तद्ददातीति तथोक्तः । जलधिः सरित्तडागादिः । अस्मिन्निन्द्रश्चन्द्रस्तेन तुल्यः प्रतिविम्बसमत्वेन परिच्छेदात् । तदेवं सर्व एव खसमा बुद्धाः सत्वार्थाय देहं देहिमण्डलं च दर्शयन्ति । तस्मात् त्वमप्युभयं दर्शयेति भावः । वहु इत्यादि । वहु योगपीठस्तत्र वज्रनयः वहुरूपधारी, तत्र वज्रमयः स्फारयन्ति सत्वानात्मसमान्, तत्र वज्रो ददाति वरान् धातुसमान् । बहूनि योगपीठान्यस्येति तथोक्तः । तेषु तद्भावाद्वज्रमयो वज्रात्मा वज्रधरो विनेयाशयभेदेन धारयति । तत्रैव रूपभेदात् स्फारयति तत एव सत्त्वान् वुद्धादीनात्मसमान् प्रभावतस्तन्निष्पन्दत्वात् तहिं इति तैः सत्वैः वज्रो वज्रधरः । देइ ददाति, वरानिति ईप्सितान्, बुद्धत्वादीन्, धातुसमानिति गोत्रसमान्, यथागोत्रमित्यर्थः। जेइ इति क्वचित्पाठः जयति विनयति वरधातून्, त्रिसाहस्रलोकधातून्, समतुल्यकालमित्येष तत्रार्थः । इदृशी परार्थक्रिया वज्रधरस्य तां प्रवर्तयेति भावः । एवं देवीसंख्यादिज्ञानाय चतुर्गीतकं चतुर्देवीभ्यो देशयित्वा ता एव नियोक्तुमाह-ए इत्यादि । [अनयोः प्रतिपादं चत्वारो गणाश्चतुर्मात्राः आणेइ वज्जेति ह्रस्वत्वं पूरणार्थम् ।] हे चतुर्देव्य एतद्गीतं भणितमनेन खसमे समाधौ निविष्टं चोदयतश्चाधिपं य एतद्गीतं शृणोति शब्दशरीरेण पश्यति । एकमनसेति समाहितेन गाहतेऽथशरीरेण चित्तमसे (स्ये)ति जल्पेन मनसा । ततः किमित्याह-एह इत्यादि । एतद्गीतमाकाशसमानं तथता प्रतिभासात् । रूपसमानं वज्रधरमानयति, तदर्थं च वज्रमयं धर्मद्रवात्मकं चित्तं परिबोधयति, व्युत्थापयति, एकस्वभावेन तन्त्रं वज्रनयमानयति । अथ वज्रस्य वज्रनयस्य चोत्पत्तौ कतमे मन्त्रा इत्याह-वज्जपएण इत्यादि [अस्यां प्रतिपादं त्रयोगणाश्चतुर्मात्राः" । ] वज्रपदं वज्रधरबी हंकारः । तेनान्य स्वभावं भिन्नं बीजम् ।
१. क. ख. तस्मिन् । २. क. ख. न । तथा कोष्ठांशः भोटे नास्ति । ३. कोष्ठांशः भोटे नास्ति । ४. ख. स्व । ५. कोष्ठांश: भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org