________________
खसमानामटीका
२४१
मायाः। धर्मकायनिष्पन्दे शुद्धलौकिके ज्ञाने तासामसता विचित्रकायवाञ्चित्ताकारण प्रख्यानात् । किं निमित्तं देव्यो माया इत्याह---कार्य निमित्तं जगदर्थहेतोः। अतश्च ता बुद्धसमाः बुद्धः वज्रसत्वादिभिः समानाः। तेऽपि हि धर्मकायैन समास्तन्निष्पन्दशुभुलौकिकज्ञानस्वभावे संभोगकाये विचित्ररूपाः प्रख्यान्ति जगदर्थक्रियार्थम् । ततः किमित्याह-क्रीडन्तीत्यादि । सर्वे खसमा देव्यो बुद्धाश्च क्रीडन्ति, समेत्य विश्वार्थचर्यया रमन्ते । कियन्तं कालमित्याह-अस(श)मा इति । शमः शान्तिविनाशः तदभावाद(श)मा नित्यकायास्तथागता इति वचनात् । नित्या हि तथागतास्त्रिभिरपि कायैः स्वाभाविकेन प्रकृतिनित्यतयाऽनादिनिधनत्वात्, साम्भोगिकेनाशंसननित्यतया अनिधनत्वात्, नैर्माणिकेन प्रवन्धनित्यतया क्वचिद् विनाशेऽपि तदेवान्यत्रोत्पादात् अन्यत्र चावस्थानात्, महारण्यलग्नाग्निस्कन्धवत् । तदेवं धर्मसंभोगस्वभावस्य क्रीडाचित्तस्य परिग्रहाय प्रोत्साहना। जगदर्थसाधनत्वाद्विशुद्धत्वान्निरूपद्रवत्वाच्च नित्यतया अत्र ध्रुवक षडक्षरो मन्त्रः । रुलुरुलुभ्योरुट् । मायेत्यादि ।
मायास्वभावाःकृतद्योतसमाः' भासन्तेतुल्यरवधर्मसमाः। धर्मा अक्रोडाः खसमानां समाः असमागमांशाः२ स्वतो वीणासमाः॥ खसमानामिति धर्मकायप्रकृतीनां बुद्धानां देवीनां च । धर्मा इति देशनाधर्माः समास्तैरेव, तेऽपि खसमाः खसमत्वेन प्रतिभासादित्यर्थः । अत एव अक्रीडाः न हि खसमाः क्रीडन्ति, क्रीडा वा कुतः खसमाः । यतस्तेषां मायया सभावाः समानरूपाः प्रतिभासन्ते तथा परिच्छेदात्, तुल्यरवः प्रतिशब्दः, तदात्मकाः शब्दास्तुल्यरवधर्मास्तैः समाः प्रतिभासमात्रत्वात्, समागमः संघातः, तदभावादसमागमा अंशा वर्णा एषामिति, असमागमांशा धर्माः वर्णानां क्रमेणोच्चारणादुच्चरितप्रध्वंसित्वाच्च ।
असंहताश्च वर्णा न वाचका अवाचकाश्च न धर्माः । तस्मात् खसमा धर्माः । अत एव स्वतः प्रकृत्या वीणासमा वीणाध्वनिसमा अवाचकशब्दत्वान्निरभिसन्धित्वाच्च तस्याः । [कअजोअसमा इति । कं जलं स्वार्थे कः प्रत्ययः ।। द्योतश्चन्द्रः जलचन्द्रसमा इत्यर्थः । अथवा द्योतः प्रदीपः कृतद्योतेन समाः । अन्धकारे तमोगतस्य लोकस्य ज्ञानालोकभूता इत्यर्थः । अथ तेनैषां जगदर्थसाधनत्वं ख्यापितम् । शेषेण विशुद्धत्वम्, तस्मात् त्वमपि व्युत्थाय धर्मान् देशयेति समुदायार्थः । जो इत्यादि ।
१. भोटे निष्पन्दे । क. ख. न्देः । २. क. ख. ङ्ग । ३. क. ख. नो।
४. कोष्ठांशः भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org