________________
खसमानामटीका
२३९ हि भगवान्नीलः पञ्चबुद्धालङ्कृतजटामुकुटी दक्षिणेन विश्ववज्रधरी वामेन विश्ववना तिघण्टाधरः तथेषापि भगवती तिष्ठतीति । य इति शेषः वेषप्रसाधन' सभावादिति समानभावात् । भावादिति सर्वसत्त्वानां तत्त्वाद् धर्मद्रवादित्यर्थः । अवगाहत इति परिच्छिनत्ति, तामिति शेषः ।
कथमित्याह-स्फारयतीत्यादि । निविष्टो मनसा समाहित इत्यर्थः । वज्र' इत्यादि [अत्रायुक्यादौ त्रिगणौ, युक्यादौ द्विगणौ, ज्जशब्दः ख च शब्दार्थः । चतुः स्वभावश्चतुर्दैवीमध्यनिविष्टः, त्रिभुवनं मायास्वभावेन प्रविष्टः ।] सर्वबुद्धानां प्रत्येकमनन्ताः कायवाञ्चित्तप्रभेदास्तत्कर्मभेदाश्च । संक्षिप्य चत्वारि गुह्यानि क्रियन्तेकायगुह्यं चित्तगुह्यं वाग्गुह्यं कर्मगुह्यं च । तेषां तथता यथाक्रमं चतस्रो देव्यः । तस्मात् चतुःस्वभावा । अतएव सितनील रक्तहरिताः दक्षिणेन सवर्णवज्रधराः वामेन चक्ररक्तोत्पलकमलनोलोत्पलधराः स्वकुलतथागतालङ्कृतरत्नमुकुटाः, तासां मध्ये निविष्टो वज्रपर्यङ्केण तासामेव मायोपमत्वेन प्रतिभासात् । ताभिः संगृहीतं त्रिभुवनं तथागतगुह्यत्रयं मायोपमत्वेन प्रविष्टोऽवगाढः परिच्छिन्दानः । [इत ऊवं तिस्रो द्विपदिकाः प्रतिपादं चतुर्गणाः । तृतीया तु द्वाभ्यां पादाभ्याम् । विस्सवज्ज इत्यादि ।] विश्ववनं तत्र चतुर्मुखं देवस्य वज्रधरस्य, तत्रेति हृच्चन्द्रे, बुद्धा अपि सर्वविकुर्वणमेतस्य अतएव तेषां स्फारणात् । स्फारबुद्धानामुपयोगमाह - यथा यथा उत्पद्यन्ते । देव इति देवभृताः । हो इत्यामन्त्रणा बुद्धानां सर्वो विकुर्वणलाभः खलु स इति शेषः ।
भवतु विश्ववज्रस्य बुद्धानां च विकुवितम्, कि वज्रसत्वस्येत्यत आह[ सब्बउ इत्यादि । सर्वेषां देवानागिति बुद्धादीनां आम उम्भावः। जयन्ती इ त या उत्पत्तिः । वज्जसत्तहो इति ङसो हो भावः । ] तेन्तति-तत्सर्वमित्यर्थः । सर्व तद्वज्रसत्वस्यैव विकुर्वणमिति यावत्, वज्रसत्वस्यैव तेन तेनाकारेण प्रसवादिति भावः । [अतश्च दोसइ सब्बहो धर्म(म्म)सहाव । तिहुअण सब्बहो एषु(स)सहाव ॥ दृश्यते१२] सर्वस्य विश्ववज्रादेर्धर्म एव । अद्वयज्ञानमेव स्वभावो नार्थो न ज्ञानमिति परिच्छेदात् । अतएव त्रिभुवनं योगिनीचक्रं विश्वं वा सर्व समग्रमेकस्वभावमेव दृश्यत इति वर्तते । कोड इत्यादि क्रीडांकुर्वन्(ता)बुद्धेन मया दृष्टस्तद्योगैश्वर्यञ्च सर्वा (व) दृष्टाः (ष्टम्)। देवे.
१. ख. ष्ट (?)। २. ख. व उ (?)। '३. कोष्ठांश: भोटे नास्ति । ४. भोटे अनन्ता: नास्ति। ५. भोटे भावात् । ६. कोष्ठांशः भोटे नास्ति । ७-८. स्फ । ९. ख. णो। १०. ख. उमहो। ११,१२. कोष्ठांशः भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org