________________
श्रमणविद्या सत्वानां पित्रोश्च, तस्माज्जातम् । आत्मनो रूपकं स्वभावं स्वदेवताबीजमित्यर्थः । सच्चन्द्रमण्डलमध्यस्थ' भावयति मन्त्री तेन बीजेन वनसत्वं भावयति । अवयमूर्तिस्वभावम् । कथमवयमूर्तिः ? नार्थों न ज्ञानमिति प्रतिभासात्, स्वविद्यासंयोगाद्वा।
___योगमुपसंहरैस्तत्फलमाह-एष इत्यादि । [ एषा चित्तनिष्पत्तिः कथिता वज्रधरेण, यत्र तेन भावेन भावयति सिध्यति चित्तस्वभावः । ] चित्तनिष्पत्तिः वज्रधरचित्तयोगः । भावेनेति प्रकारेण भावयति वज्रसत्वम्, स सिध्यति वजधरचित्तस्वभावः ।
यदि वज्रधरस्यापि मन्त्रादुत्पत्तिरप्रपञ्चसमाधौ स्थितस्य देहोत्पादनायोगात्, ततहि तस्मात् समाधेरचोदितस्यास्य व्युत्थानम् । विक्षेप एव स्यादनायकधर्मो वेत्यत आह-ए(अ) इत्यादि । [अत्र प्रतिपादं चत्वारो गणाश्चतुर्मात्राः । एषा चतुर्देवो एकस्वभावा गीतेन भावयति खेन सभावम् । एवं धर्मकृतचित्तस्वभावं भावयति देवीं मोक्षस्वभावां] चतुर्विधां देवी देवीचतुष्टयमित्यर्थः । एकस्वभावेति मोक्षरूपा, गीतेनेति वक्ष्यमाणेन चतुर्गीतकेन, भावोऽभिप्रायः। तद्वत्तं करोति भावयति मन्त्राकारस्याभिप्रायस्योत्पादेन प्रबोधयतीत्यर्थः । कतमं प्रबोधयति ? खेन सभावं समानभावं खसमं धर्मद्रवमित्यर्थः। (एअ शब्द एवमर्थः प्राकृतादानेतव्यः, प्राकृतस्याप्यपभ्रंशे प्रवेशात् । जन्तो द्विअ अतन्तो द्विअ इत्यादिवत् ।] एवं सति योगी धर्मद्रवं कृतचित्तस्वभावं कृतवज्रधरमूर्ति भावयति देवीमूर्ति च, मोक्षस्वभावां सुविशुद्धचित्तं(1) वज्रसत्वः, सुविशुद्धा तथता देवीति भावः ।
अनया भावनया बुद्धत्वं प्राप्यते' इत्यस्मिन्नर्थे आत्मानमुदाहरणीकर्तु कश्चिद् बुद्धः पर्षत्सन्निपतितोऽनुक्तमप्यर्थमाह-वज्जसत्त इत्यादि । [अनयोः पादाः त्रिगणाः पीठपकारस्य द्विर्वचनं, उत्पत्तिपकारस्य द्विवचनाभावः उपत्तिहो इति द्रुतह्रस्वाभ्यां चतुर्मात्रः ।
वज्रमत्वो मया दृष्टो योगपीठे रममाणो दारां गृहीत्वा सकलसमां तिष्ठति वेषं धारयन्, खेन सभावाद्भावादुत्पत्तिः। खलु तत्र या (ो ) दृष्टा (ओ) वज्रसत्वोऽवगाहते स्फारयति बुद्धान्निविष्ट: ।] दारामिति भार्यां सकलसमामिति भगवतः सर्वसमां, यथा
१. ख. ञ्च । २. कोष्ठांशः भोटे नास्ति । ३. भोटे अत्रतः पर्यन्तं नास्ति । ४. कोष्ठांश भोटे नास्ति। ५. ख. प्ये। ६. क. धः । ७. क. व । ८. ख. स्वाञ्च । ९. भोटे अनयोः इत्यतः निविष्टपर्यन्तं नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org