________________
खसमानामटीका
२३५
परमार्थतस्तु धर्मकायनिष्पन्दभूतं ज्ञानान्तरमेव तदाकारमुत्पद्य यथाकारमसत्तया भगवतः ख्यातिः। [ इत ऊवं सैव द्विपदी त्रिगणैः पादैः । ए चउ देवीत्यतः प्राक् काम इत्यादि । अत्र उत्पत्तिप्रकाराणां' ह्रस्वत्वं पूरणार्थम् । कायो वाक् तत्र चित भोधर्मस्याद्युत्पत्तिः। योगपीठं तत्र देवीचुन्दाधर्मस्योत्पत्तिः ] तस्मिन् वज्रसत्वोत्पादने का तस्योत्पत्तिः ? किं चोत्पत्तिस्थानमिति चेदाह--कायो वाक् चित्तमिति त्रयमिदं धर्मस्य वज्रसत्वस्याद्युत्पत्तिः । योगस्य पीठं प्रतिष्ठा भगवती चुन्दा महाकाया, तस्मिन् वज्रसत्वोत्पत्तिः। कौ तस्य मातापितरौ कथं चोत्पत्तिरित्याह-वज्जहो इत्यादि । [ वज्जहो इति विलम्बितेन षण्माको गणः । वज्रस्य तत्र मन्त्री भावयत्येकस्वभावाम् । धर्मरूपमालम्बते चिन्तयति वज्रस्वभावम् ] वज्रस्येत्यक्षोभ्यस्य, तस्मिन् योगपीठे, एकस्वभावामिति स्वभावाः स्वाभविद्यासंयुक्तत्वात् एका चासौ स्वभावा च तां धर्मरूपमिति मोक्षं पूर्ववत् । वज्रस्वभावं वज्रसत्वदेहोत्पत्तिम्, तमेवाह-जटेत्यादिना । [ जटामुकुटेन च मण्डितं वणं च नीलस्वभावम् । वज्रसत्वसुसमाधि भावयत्येष स भावः ।] जटामुकुटेन च पञ्चबुद्धविराजितेन मण्डितं भगवन्तम्, वर्णं च तस्य नोलम् । एवं वज्रसत्वस्य सम्यक्समाधि भावयेत् । एष इति योगी सहभावेन सभावः सादर इत्यर्थः । अक्षोभ्यजटामुकुटं तु बायैकरत्नचिन्हं न बुद्धचिह्नम् ।
___ अथाक्षोभ्यस्यापि किमिन्दुद्रवादुत्पत्तिः ? नेत्याह अक्क' इत्यादि । [ अक्क' इति त्रिमात्रो गणः । मज्जट्टिउ इति पश्चमात्रः । अर्कमण्डलमध्यस्थितां चिन्तयत्यक्ष. रोत्पत्तिः। अक्षररूपं निर्वयं चिन्तयति बज्रस्वभावम् 1 ] अर्कः सूर्यः अक्षरं नीलहूंकारम् । वज्रसत्वबीजं तु सितहूँकारः । वज्रस्वभावमिति अक्षोभ्यमूर्तिम् ।
वज्रसत्वोपत्तिरपि मन्त्रादेवेत्याह जलतउँ" इत्यादि । [ अत्र प्रथमगणो द्रुतोच्चारणेन चतुर्मात्रः कर्तव्यः१२ । ] जलान्तजं भावयति मन्त्री | आत्मनो रूपं स्वभावम् । वज्रसत्वमालम्वते अद्वयरूपस्वभावम् ।। जलमि दुद्रुवः स एवाऽन्तः
१. ख. प्प। २. इत अवं इत्यतः उत्पतिः पर्यन्तं भोटे नास्ति । ३. क. का इति अधिकः।
४. क, वाः। ५. वज्जही इत्यतः वजस्वभाव इति यावत् भोटे नास्ति । ६. जटामुकुटेन इत्यत: भाव इति यावत् भोटे नास्ति । ७. क. अथेति नास्ति । ८-९. क. क्ष। १०. अक्ष इत्यतः स्वभावं यावत् भोटपुस्तके नास्ति । ११. भोटे जलान्तमित्यादि । १२. भोटे अत्रत: कर्तव्यान्तं नास्ति । १३. ख. रूप । १४ आत्मनो आरभ्य अद्यरूपस्वभावं यावत् भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org