________________
श्रमण विद्या इदानीं श्रीसमाजादितन्त्रैरेव साधारणी खसमार्थभावनां प्रस्तोतुमाह–पञ्चेत्यादि । [द्विपदीद्वयं आद्यया तुल्यगणं प्रथमश्चशब्दोऽप्यर्थः । द्वितीयोऽवधारणार्थो भिन्नक्रमश्च । पञ्चबुद्धमुकुटस्यापि यस्य धर्म एव स्वभावः । वज्रसत्वः प्रणम्यतां त्रिभुवनधर्मप्रभावः । वज्रसत्वः प्रणम्यतां]' कोदृशः पञ्चबुद्धमुकुटस्यापि देहिनः सतो यस्य धर्मकाय एव स्वभावः ? धर्मकायस्यैव खसमस्य समरसी(शत भूतसर्वबुद्धधर्ममयस्य, तया मूर्त्या, तेन संदर्शनात् । पुनः कीदृशः ? त्रिभुवनं योगिनीचक्रम् । धर्मप्रभावो धर्मदेशना, धर्मसंभोगलक्षणाऽस्येति तथोक्तः। उक्तं च वज्रशिखरे:. ततः स्वाभाविकान् कायान् संभोगैविसृतः पुनः । इति ।
अत्र भावनैव प्रमा णो (नो) विवक्षितः । स्वकायवाञ्चित्तैः तत्कायवाक् चित्तेषु प्रवेशः प्रणामः । प्रणामानुसंशमाह-वज्रत्यादिना। वज्रसत्वे प्रणम्यमाने पुण्यमपि भवत्यनन्तम् । वज्रसत्वः प्रणम्य ताल्लभ्यते धर्ममहत्वं पुण्यमपीति । अपि शब्दाज्ज्ञानमपि । अनन्तमिति यावता संभूतसंभार: स्यात् । भूयोऽपि प्रणम्यतां यतः प्रणामाल्लभ्यते धर्ममहत्वं वज्रधरमाहात्म्यम् । क्वचित् पुस्तके महत्त्वस्य स्थाने स्वभावशब्दः पठ्यते । तत्र यमकानुपपत्तिः स दोषो व्यभिचारात् ।
धर्मकाय एव वज्रसत्त्वशरीरतां गच्छतीत्युक्तम् । तत्र धर्मकायोऽसाक्षात्कृतः, सङ्केतेन भावयितव्यः । तमाह-सर्वेत्यादिना। [इयमपि सैव द्विपदी किन्तु द्वाभ्यां पादाभ्यां सर्वसत्वान् परिभाव्य क्रियते मोक्षस्वभावः ।] सर्वसंबुद्धान मायासुरतध्वनिभिराहूय तान् प्रवेश्य हृदि विलीय कमलोदरगतान् विभाव्य क्रियते मोक्षस्वभावः शरदिन्दुद्रवधवल: सर्वबुद्धधर्माणां समरसीभावो धर्मकायः ।।
ततः किं क्रियत इत्याह-वज्र त्यादि । [अत्र चतुर्गणाश्चत्वारः पादाः । वज्रसत्वकृतसर्वस्वभावो मोक्षः क्रियते धर्मस्वभावः । एष च धर्मोऽविनष्टस्वभाव इति ।] कथं तहि देहीक्रियत इत्याह-लोकेनेत्यादि । लोकेन हेतुना लोकार्थमित्यर्थः । क्रियते सन्दर्यतेऽन्यस्वभावो वज्रसत्त्वाकारः, यथासङ्केतं विनयैस्तत्परिणामतया प्रतीतेः ।
१. द्विपदीद्वयं इत्यत: प्रणम्यतां पर्यन्तं भोटे नास्ति । २. क. ख. पुस्तके अस्ति । ३. ख. श्रीवज्र शिखरे, Peking Ed. Vol. 5, N. 113, Tohoku
Catalogue N. 480. ४. ख. क प्रमाणो। ५. ख. प्रणम्य त । ६. भोटानुसारं व्यभिचारात् इति किन्तु क. ख. पस्तके साप्पदोषो व्यभिचारादिति
पाठः। ७. इयमयीत्यारभ्य स्वभाव इत्यन्तं भोटे नास्ति । ८. अत्रतः इति पर्यन्ते भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org