________________
समानामा
आकाशोत्पादचिह्नत्वादनादिनिधनः परः । सर्ववज्रमयः सत्वो वज्रसत्वः परं सुखमिति ॥
अतएव सत्वा बुद्धादय उत्पद्यन्ते, आकाराणामसत्तया परिच्छेदात् । खेन समानाः ।
ननु योगतन्त्रेषु महामुद्रासिद्धिरेव बोधिस्तस्याः खसमं ज्ञानं हेतुरेव न स्वभावः । तस्मात् सर्वयोगतन्त्रैः खसमतन्त्रस्य विरोध इति चेदाह - नय इत्यादि नीयते व्याख्यायतेऽनेनेति नयः । येन भवगता नेयार्थसूत्रान्तो व्याख्यायते स नयः । तस्मिन्नर्थे ऽनक्षरारूढेऽपि शास्त्रं भगवतः शासनं प्रमाणं क्रियते, न तद्विपरीते ।
अथ मन्त्रमुद्रादौ सकारे ज्ञाने कीदृशो नय ? इत्याह-आदीत्यादि । आदिशुद्धमादिशुद्धिर्धर्मकायः । तदेव पदमालम्बनं खसमज्ञानसमानां (नं) खसमनिष्पन्दानां मन्त्रमुद्रादीनां समत्वेन तेषां प्रतिभासात् । अतएव सर्वतन्त्राणामुत्तरतन्त्रमिदम् । श्रीसर्व रहस्य तन्त्रेप्युक्तम्' -
२३५
न किञ्चिद्धेतुतत्त्वं हि फलतत्वं तथैव च ।
तत्तत्त्वं तथताज्ञानं तत्र योगी समाचरेत् ॥ इति ।
Jain Education International
हेतुतत्त्वं चित्तप्रतिबेधाश्चत्वार आकाराः । फलतत्त्वं पञ्चम आकारः, तदुभयमप्याकारकमसत्, तथताज्ञानमेव तयोस्तत्त्वं स्वाकाराणामसत्तया परिच्छेदात् । तत्र परिच्छेदे योगी चरेदित्यर्थः । श्रीसमाजेऽप्युक्तम्
कायाक्षरमनुत्पन्नं बाक्चित्तमनलक्षणम् । वज्रकल्पनाभूतं मिथ्यासंग्रहसंग्रहम् ॥ इति [गु० स० १७.३६ ]
नक्षतीत्यक्षरं गुह्यं कायगुह्यं वाग्गुह्यं चित्तगुह्यं तत्सर्वमनुत्पन्नमस्वभावं च प्रतिभासते । यथाकारमसत्तया परिच्छेदात् खवजे धर्मकाये धर्मद्रवानुभूते कल्पनाभूतं परिच्छेदात्मकं खसमेन तत्त्वेन सत्तया यथाकारमसत्तया च परिच्छेदात् । मिथ्या च तत् साकारत्वात् संग्रहश्च तत्सम्यक् परिच्छेदात् तेन संग्रहोऽस्येति तथोक्तम्, शुद्धलौकिकज्ञानसंग हीतमित्यर्थः । एवं तावत् सर्वयोगतन्त्रसाधारणी खसमार्थभावनोक्ता ।
9. Peking, Ed. Vol. 5, No. 114, Tohoku Catalogue No. 481. २. क. संग्रहीतं नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org