________________
श्रमण विद्या वक्तव्येन भावनेति प्रकारेण चित्तं योगिनो निरूप्यते समाधीयते । एषा परमार्थस्य वज्रसत्वस्य भावना, नातोऽन्या । कतमेन भावेनेत्याह-बुद्धेत्यादि । बुद्धश्चित्तबाह्यश्चित्तग्राह्यः स स्वभावोऽस्येति । बुद्धस्वभावः खलु नैव संदृश्यते नोपलभ्यते न कल्प्यते, नापि विज्ञानस्य स्वभावभूत आकारः, एकानेकविचारासहत्वात् । तथाहि ग्राह्यग्राहकानुपलम्भो द्वयानुपलम्भरूपस्य धर्मकायस्य प्राप्तिहेतुः । कायवाञ्चित्तभावना तु संभोगकाययोः, तस्मादेषैव तस्य भावना क्षिप्रतरं कायत्रयस्य प्रापणादिति ।
भवतु वज्रधरस्यैवं भावना, बुद्धादीनां तु कथं भावेनेत्यत आह-बुद्ध स इत्यादि । [अत्र प्रतिपादं चत्वारो गणाः आधे पादे प्रथमौ द्वित्रिमात्रौ युक्षादयः । प्रथमः षण्मात्रः, द्वितीयो द्विमात्र शेषाश्चतुर्मात्रा ।]" बुद्धस्य वज्रधरस्य रत्नकेतोः सह पद्मन वृत्तस्य एतेषां देवानां नास्ति स्वभावः । आदिबुद्ध आकाशस्वभावः, बुद्धस्येति वैरोचनस्य वज्रधरस्येत्यक्षोभ्यस्य रत्नकेतोरिति रत्नसम्भवस्य पद्मनेति अभिताभेन वृत्तस्येति कर्मणः अमोघसिद्धेरित्यर्थः । एतेषामिति पञ्चानां तथागतानां देवानामिति देवीनां कुलानां च नास्ति स्वभाव इति ग्राह्यो ग्राहकश्च द्वयप्रतिभासस्यालीकमात् । यदि द्वयमलीकं कि तर्खेषां निजं रूपम् ? आदिबुद्ध इति वज्रधरः । आकाश इति खसमः धर्मकायलक्षणत्वात् खसमत्वेन प्रतिभासात-स एषां स्वभावः ।
निजरूपं तन्निष्पन्दत्वादेषामुपसंहर्तुमाह । [आइ इत्यादि । अत्रापि प्रतिपादं चत्वारो गणाः प्रथमपादे प्रथमो षण्मात्रद्विमात्रौ एवं चतुर्थतृतीये प्रथमो द्विमात्रः शेषाश्चतुर्मात्राः। एष इति एषा उपज्ज इति पकारस्य द्विवचनं नेष्यते। खइं इति विलम्बितेन त्रिमात्रं, खशब्दात् स्वार्थे कः स्वरशेषता, तृतीयैकवचनस्य ईभावो अकारलोपश्च । आदिधर्मस्य एषा उत्पत्तिः सत्वा उत्पद्यन्ते खेन समानाः । बहुत्वेऽप्येकवचनं नये क्रियते, (तत्र) शास्त्रं प्रमाणम् । आदि शुद्ध पदं खसमसमानम्,] आदिधर्मों वज्रसत्वः धर्मकायात्मकत्वात् । तस्यैषा खसमैः कायवाञ्चित्तैरुत्पत्तिः । अशेषावरणक्षयादभिव्यक्तिरेव तस्योत्पत्तिः प्रासाद भङ्गादाकाशोत्पत्तिवत् । आकाशमस्योत्पत्तौ चिह्नदृष्टान्तः । तथा चोक्तं श्रीपरमाये--
१. भोटे नास्ति वज्र-शब्दः। २-३-४. भो० SES-BYA. ५. भो० ग्रन्थे अत्र प्रतिपादं इत्यत: चतुर्मात्रा पर्यन्तं नास्ति ।
६. आइ इत्यादितः खसमसमानम् इत्यन्तं भोटे नास्ति । ७. ख. दाद । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org