________________
खसमानामटीका
भुवनं च सारः । आदिबुद्धकृतभावस्य तस्य खलु खसमप्रचार इति ।]' मुकुटाश्रया इति 'मुकुटस्थाः, यस्येति वज्रसत्वस्य । त्रीणि कायवाञ्चित्तगुह्यानि योगिनां मण्डलसंगृहीतानि त्रिभुवनम् अथवा स्त्रीति योगिन्यस्तासां भुवनं मण्डलं स्त्रीभुवन तच्च यस्य सारो विभवः, वज्रनयत्वात् । यथोक्तं श्रीगुह्यसमाजे
मोहे द्वेषे च रागे च सदा वजे रतिः स्थिता। उपायः सर्वबुद्धानां वज्रयानमिति स्मृतम् ॥ [गु. स. १८.५१]
षण्णां चक्रवर्तिनामाद्यत्वाद् आदिबुद्धो वचसत्वः । चक्रवर्तित्वादेव समुकुटः समण्डलश्च स कृतः कृतक: सांवतो भावोऽस्येति तथोक्तः । इत्थंभूतस्य सतः तस्य योऽयं प्रचारो व्यवहारः संवृतिः स्वकायवाचितमुकुटबुद्धादिः स सर्वस्तस्य खसमः खसमत्वेन प्रतिभासात् । कथम् ? आकाराणामसत्तया परिच्छेदात् । तस्मादयं भगवान् स्वयं च खसमः, खसमस्य च वज्रनयस्य प्रवर्तकः । स्वमुकुटबुद्धसंवृतिरपि तेनैव कृता। किं पुनः ? स्फुरणबुद्धाः । तस्मात् जनक एवासौ बुद्धानाम् ।
ननु बुद्धपुत्रोऽप्यसावुच्यते । तत्कथम् ? कदाचिद् बोधिसत्त्वरूपत्वात्, बाधिसत्त्वानां बुद्धसुतत्वात् । ननु मन्त्रनीतौ भगवतः कायवाञ्चितानि मण्डलं च भाव्यते । ततो निराभासस्य धर्मकायस्य नैव प्राप्तिः। तदप्राप्तौ तदाश्रितयोः संभोगनिर्माणकाययोः सुतरामप्राप्तिः । अथान्यथैव तस्य भावना सा तर्हि कथ्यतामित्याह-[जइ इत्यादि । अत्र गणाश्चतुर्मात्रा एव अयुक्षाद्यश्चत्वारः । युक्षादयस्त्रयः । ए ऐ इति द्वावप्येकारौ ह्रस्वौ अल्पको विन्दुः । आद्येन भावेन चित्तं निरूप्यते । एष परमार्थस्य भावः बुद्धस्वभावः खलु नैव दृश्यते, नापि विज्ञानस्वभावः११ ।। एतेनेति उत्तरार्धेन१२
१. 'अत्र श्लोको' 'इत्यतः' 'प्रचार इति' यावद् भोटग्रन्थे नास्ति । २. ख. म। ३. भो० RNAL-HBYOR-MA. ४. भो०-त्रिभुवनम् ।
मोहो द्वेषस्तथा रागः सदा वत्रं रतिः स्थिता ! उपायस्तेन बुद्धानां वज्रयानमिति स्मृतम् ।। B. S. T. No. 9. भो० NID-KYIS-SANS-RGYAS-RNAMS-KYI-DBU
RGYAN-DAN KUN-RZOB-KYIS. ७. भो० SANS-RGYAS-RNAMS-SPROS-PAS-SO. ८. भो०."DAN-THUGS-KYI-DKYIL-HKHOK. ९. ख यो। १०. ख. यो । ११. भोटग्रन्थे जइ इत्यादितः विज्ञानस्वभावपर्यन्तं नास्ति । १२. क. र्धे ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org