________________
२३२
श्रमणविद्या
तत्त्वेन धर्माननावृतोऽनुभवति' संभोगकायस्तथैव परिच्छिनत्ति, अनुभवस्य निष्पन्दत्वात् । कथं च तथा परिच्छिनत्ति ? ग्राह्यग्राहकतत्प्रतिभासानामसत्तया परिच्छेदात् । तद्यथा बालानां घटाद्यनुभवनिष्पन्दो निश्चयः सत्तया । यथा च बालानां घटाकारः पटीयाननुभवः सत्ताजल्पनमन्तरेणापि सत्तयैव परिच्छिनत्ति प्राक्तननिश्चयाभ्यासवासनाबलात्; तथा बुद्धानामकल्पकोऽपि संभोगकायः स्वमाकारमसत्तयैव परिच्छिनत्ति । स एव परिच्छेदः प्रतिभासशब्देनात्र विवक्षितः। द्विविधो हि प्रतिभासः - संवेदनमुपलक्षणं च । तस्मात् संभोगकायोऽपि बुद्धानां यथाप्रतिभासं खसम एव । निर्माणकायस्तु सुतरां खसमः मायाकारैरपि स्वयं निर्मितस्य पुरुषादेरसत्तयैव परिच्छेदात् । स च वज्रधरो जनकः सर्वबुद्धानाम् । तेऽपि खसमास्तन्निष्पन्दत्वादिति सिद्धान्तः ।
एतस्मिन् सिद्धान्ते चोद्यम् । नैव वज्रधरो बुद्धानां जनकः । किं तर्हि ? बुद्धपुत्रः । पञ्चबुद्धमुकुटत्वात् । तस्य तेषां देवीचक्रस्य च कायवाचित्तयोगात् प्रपञ्च एवायं प्रपञ्चनयप्रवर्तकश्च । नैव खसमो नापि खसमनयप्रवर्तक इति । एतच्चोद्यं परिहत्तुमाहपञ्चबुद्धेत्यादि । [अत्र श्लोको
इह द्वित्रिचतुःपञ्चषड्मात्रः पञ्चधा गणः । प्रायेण द्विपदीवृत्तं पादस्त्रिचतुरैर्गणैः॥ अपभ्रंशस्तु भाषात्र विकारः संस्कृतस्य च ।
पूरणं ह्रस्वदीर्घत्वविन्दुद्रुतविलम्बितैः॥ द्विपदीखण्डं वस्तुकमिति पर्यायः । तत्र प्रथमायां द्विपदिकायां त्रिगणाः पादाः । अयुक्षादय आद्यो गणः षण्मात्रः, द्वितीयो द्विमात्रः, शेषाश्चतुर्मात्राः। च शब्दोऽलुप्तचकारो भिन्नक्रमः । हो शब्दौ द्वौ । एको उस आदेशः । द्वितीयः खलु शब्दार्थ (:) मव्ययं (:) संबोधनार्थं वा । होशब्दयोरोकारस्य ह्रस्वत्वं पूरणार्थम् । तथाहि अपभ्रंशे ह्रस्वत्वम ईक्षेप एदोतोर्युक्तवर्णयोश्च यथादर्शनम् । जइ के वि जइ को वि । जइ पिउ इत्यादिवत् । तत्रैवं सम्बन्धः पञ्चबुद्धा मुकुटाश्रया यस्य त्रिभुवनं च सारः, अथवा स्त्री
१. भो० CHOS-DE SGRIB-PA, MED PA क. त्तो।
भोNAMAS SU.MYON BA DAN RGYU MTHUN PAHI
PHYIR-RO. ३. भो० ‘सत्ता' नास्ति । ४. भो० 'अभ्यास' नास्ति । ५. क. कल्पोऽपि । ६. ख. अयुक्षादयोराद्यो । ७. ख. डु। ८. क. त्रि ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org