________________
खसमतन्त्रस्य
आचार्य रत्नाकरशान्तिविरचिता
खसमा-नामटीका
॥ ॐ नमो वागीश्वराय' || कायैस्त्रिभिरपि खसमं परमाद्यं प्रणमता तदर्थस्य । तन्त्रस्य मया क्रियते टोका खसमस्य खसमैव ॥
इह वज्रधरो भगवान् सर्वबुद्धानां बोधिः । सा चाश्रयपरावृत्तिलक्षणा । आश्रयः शरीरं स तेषां त्रिविधः । तत्र चित्तसन्तानलक्षणस्याश्रयस्य यावत् सांक्लेशिकधर्मबीजानां तद्वासनानां दौष्ठुल्याख्यानामाधारस्तावदालयाख्यस्य पश्चादार्यमार्गेण निष्प्रपञ्चेन चिरभावितेन तासां परिक्षयादनालयाख्यस्य सतः प्रतिष्ठा देहभोगनिर्भासानां विज्ञप्तीनामितरेषां च सांक्लेशिकानां धर्माणामुत्पन्ना मस्तंगमादनुत्पन्नानां चात्यन्तमनुत्पादात्तेनात्मना निवृत्तिनियमः । विशुद्धगगनोपमेन तु निष्प्रपञ्चेन प्रकाशात्मनाऽनन्तेन प्रवृत्तिनियमः परावृत्तिः । सा बुद्धानां दौष्ठुल्याश्रयपरावृत्तिः । सेव तेषामनास्रवो धातुरुच्यते, अनाश्रवाणां बुद्धधर्माणां बीजाधारत्वात् । सोऽपि मार्गस्तेषामाश्रयः । तस्य परावृत्तिलौकिकेन रूपेणात्यन्तिकी निवृत्तिः, लोकोत्तरेण चात्यन्तिकेन प्रवृत्तिः । सर्वधर्मतथतापि तेषामाश्रयः । तस्य परावृत्तिरागन्तुकसर्वावरणविशुद्धिरात्यन्तिकी । येयं बुद्धानां दौष्ठुल्याश्रयस्य मार्गाश्रयस्य तथताश्रयस्य च परावृत्तिः सैव तेषां बोधिः सैव धर्मकायः । बुद्धधर्माणां काय आश्रय" इति कृत्वा स्वाभाविक: काय इत्यप्यते तथताप्रकाशयोः स्वरूपेऽत्यन्तमवस्थानात् । तदयं बुद्धबोधिलक्षणो भगवान् वज्रधरः प्रकृत्या खसमः । प्रकृतिरस्य स्वाभाविकः काय:, तेन खसम एव, निराभासानन्तसुविशुद्धप्रकाशानां तथतास्वभावत्वात् । सांभोगिकेन यद्यप्याकारवैचित्र्याद्यथाकार नैव खसमः, तथापि यथाप्रतिभासं खसम एव । धर्मकायो हि खसमेन
7
१. भो० भगवान् श्रीवज्रसत्त्वाय | २. भो० 'तेषां' नास्ति । स च अस्ति । ३. भो० 'प्रवृत्ति' नास्ति । Y. To SA-BON-HZIN-PAHI PHYIR-RO. ५. भो० SKUHI RTEN. ६. क. इत्युच्यते ।
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org