SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ लोकोत्तरधर्मदानम् [अशीत्यनुव्यञ्जनानि ] तथागतस्य अशीत्यनुव्यञ्जनानि कथ्यन्ते । (१) ताम्रनखा बुद्धा भगवन्तो भवन्ति, सर्वसंस्कारविरक्तचित्ताः । (२) स्निग्धनखाश्व यचित्ताः । भवन्ति, स्निग्धस्वजनवत्सर्वसत्त्वहितसुखाध्या[श] (३) तुङ्गनखाश्च भवन्ति, तुङ्गकुशलवंशप्रसूताः । (४) वृत्ताङ्गुलयश्च भवन्ति, वृत्ततोऽनवद्याः । (५) चिताङ्ग "लयश्च भवन्ति, उपचितविपुलकुशलमूलाः । (६) अनुपूर्वाङ्गलयश्च भवन्ति, अनुपूर्व समुपार्जित कुशलमूलाः । (७) गूढशिराश्च - भवन्ति, सुनिगूढकायवाङ्मनस्कर्मान्ताजीवाः । (८) निर्ग्रन्थिशिराश्च भवन्ति, क्लेशग्रन्थिभेदकराः । (९) गूढगुल्फाश्च भवन्ति, सुनिगूढधर्ममतयः । (१०) अविषमपादाश्च भवन्ति, सर्वविषमनिस्तारयितारः । (११) सिंहविक्रान्तगामिनश्च बुद्धा भवन्ति, नरसिंहाः । (१२) नागविक्रान्तगामिनश्च भवन्ति, नरनागाः । (१३) हंस विक्रान्तगामिनश्च भवन्ति, राजहंससदृश वैहायसगामिनः । (१४) वृषभविक्रान्तगामिनश्च भवन्ति, पुरुषर्षभाः । (१५) प्रदक्षिणवर्तगामिनश्च भवन्ति, प्रदक्षिणमार्गाः । (१६) चारुगामिनश्च भवन्ति, चारुदर्शनाः । (१७) अवक्रगात्राश्च भवन्ति, नित्यमवक्रचित्ताः । Jain Education International (१८) वृत्तगात्राश्च भवन्ति, विशुद्धगुणख्यापयितारः । (१९) मृष्टगात्राश्च भवन्ति, प्रमृष्टपापधर्माण: । ४१. fami°--Ms. For Private & Personal Use Only संकाय पत्रिका - १ www.jainelibrary.org
SR No.014028
Book TitleShramanvidya Part 1
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages402
LanguageHindi, English
ClassificationSeminar & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy