________________
२२०
श्रमणविद्या
(२०) अनुपूर्वगात्राश्च भवन्ति, अनुपूर्वदेशिकाः । (२१) शुचिगात्राश्च बुद्धा भवन्ति, कायवाङ्मनःशौचसमन्वागताः । (२२) मृदुगात्राश्च भवन्ति, स्वभावमृदुचित्ताः। (२३) विशुद्धगात्राश्च भवन्ति, स्वभावविशुद्धचित्ताः । (२४) परिपूर्णव्यञ्जनाश्च भवन्ति, सुपरिपूर्णधर्मविनयाः । (२५) पृथुचारुमण्डलगात्राश्च भवन्ति, पृथुचारुगुणाख्यातारः । (२६) समक्रमाश्च भवन्ति, सर्वसत्त्वसमचित्ताः । (२७) विशुद्धनेत्राश्च भवन्ति, सुविशुद्धदर्शनाः। (२८) सुकुमारगात्राश्च भवन्ति, सुकुमारधर्मदेशिकाः । (२९) अदीनगात्राश्च भवन्ति, नित्यमदीनचित्ताः । (३०) उत्सदगात्राश्च भवन्ति, उत्सन्नाकुशलमूलाः । (३१) सुसंहतना[भय]श्व भवन्ति, क्षीण पुनर्भवसहगताः । (३२) सुविभक्ताङ्गप्रत्याङ्गाश्च भवन्ति, सुदेशितप्रतीत्यसमुत्पादाङ्गप्रत्यङ्गा (३३) वितिम्रशुद्धालोकाश्च भवन्ति, सुविशुद्धदर्शनाः । (३४) वृत्तकुक्षयश्च भवन्ति, वृत्तसम्पन्नशिष्याः। (३५) मृष्टकुक्षयश्च भवन्ति, प्रमृष्टसंसारदोषाः । (३६) नभग्नकुक्षयश्च भवन्ति, भग्नमानशृङ्गाः । (३७) क्षामोदराश्च भवन्ति, धर्मक्षयविनिवर्तयितारः । (३८) गम्भीरनाभयश्च भवन्ति, प्रतिविद्धपरमगम्भीरधर्माणः । ४२. Edgerton translates परिपूर्णव्यञ्जन as "Sex organs complete".
See अनुव्यञ्जन in BHSD, p. 34.
क्षीन-Ms. - - ४४. It is interesting to find a reference to the preaching of ___angas of प्रतीत्यसमुत्पाद in the expin. of this अनुव्यञ्जन. Cf. सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता Aloka,, p. 539.
३.
संकाय: पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org