________________
लोकोत्तरधर्मदानम्
२१५ (२१) रसरसज्ञता इति कथम् ?१२ वातपितश्लेष्मभिरनुपहतरसतनुत्वाद् रसरसप्रतिभावनत्वात् सदृशविज्ञानत्वाच्च रसरसज्ञः । (२२) न्यग्रोधपरिमण्डलता इति कीदृशा ? कायस्य व्यामसमारोहपरिणाहप्रमाण त्वान्न्यग्रोधपरिमण्डलः । (२३) उष्णीषशिरस्कता कथम् ? वृत्तपरिमण्डलदक्षिणावर्तोष्णीषसमानसुप्र हितदर्शनीयशिरस्कत्वादुष्णीषशिरः ।। (२४) पृथुतनुजिह्वता इति । रक्तोत्पलपत्रसमवर्णायतत्वात्पृथुतनुजिह्वः । (२५) ब्रह्मस्वरता इति को दृशा ? हिरण्यगर्भकलविङ्कशकुनिसदृशस्वरत्वात् सुस्वरः । (२६) सिंहहनुता इति । आदर्शमण्डलवत्सुपरिवृत्तोपचितदर्शनीयहनुत्वात् सिंहहनुः । (२७) शुक्लदन्त इति कथं ? कुन्देन्दुशङ्खावभेदक"वत् सितदन्तत्वाच्छुक्लदन्तता। (२८) समदन्तता इति । अनुत्ततदन्तत्वात् समदन्तः । (२९) निरन्तरत्वादविरलदन्तः।
(३०) अध ऊर्ध्वं चानातिरिक्तत्वात् समचत्वारिंशद्दन्तता । (३१) कृष्णशुभ्रदेशानुपक्लिष्टसुविटत्वाल्लोहितराज भिरपिनद्धत्वाच्चा भिनीलनेत्रता। (३२) अधस्थितानां ऊर्ध्वस्थितानां च सम्यगवनतत्वादसंलुडितत्वाच्च पक्ष्मणोः गोपक्ष्मनेत्रता।
१२.
१३. १४. १५. १६. ११.
Note here the change in catechetical style. Instead of "इति कीदृशा?", we have “इति कथम् ?" 'तन°—-Ms. "तनु" here may mean delicate", "refined". सुपहत°-Ms. Ms. looks like ° वमेदकं. Can it be cmended to °सुविटप ? Is it wrong reading for °राजि ?
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org