SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१४ श्रमण विद्या (९) उच्छङ्घपादता इति कीदृशा ? उच्चैः सुनिगूढजानुगुल्फत्वादुच्छङ्खपादः । (१०) ऊर्ध्वाङ्गरोमता इति कीदृशा ? ऊर्ध्वप्रदक्षिणावर्तकुण्डल रोमत्वादूर्ध्वाङ्गरोमः । (११) एणेयजङ्घता इति कीदृशा । शरभैणेयजङ्घत्वादनुपहतत्वादनुपूर्वोपचितवृत्तजङ्घत्वाच्च एणेयजङ्घः। (१२) पटुरुबाहुता इति कीदृशा ? समोरुबाहुत्वाद [न] वनतस्य पाणितलाभ्यां जानुमण्डलस्पर्शनात्परबाहुः । (१३) कोशावहितवस्तिगुह्यता इति कीदृशा ? परमाभिरूपकोशनिगूढसंहतत्वाद्व' स्त्यश्वाजानेयवत् कोशावहितवस्तिगुह्यः । (१४) सुवर्णवर्णता इति कीदृशा ? उत्तप्तहाटकसुवर्णवर्णत्वात् सुवर्णवर्णता । (१५) श्लक्ष्णछविता इति कीदृशा ? रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानछावेत्वात् रजसानुपलिप्तगात्रत्वात् श्लक्ष्णछविः । (१६) एकैकप्रदक्षिणावर्तरोमता" इति कीदृशा ? सुविभक्तैकैको [5] द्वितीयजातरोमत्वादेकैकरोमः । (१७) ऊर्णाङ्कितमुखता इति कीदृशा ? अवदातकुन्देन्दुगोक्षी र तुषारवर्णचन्द्रसूर्य शतातिरेकप्रभया ऊर्णया भ्रुवोरन्तरे कृतालंकारत्वादास्यस्य ऊर्णाङ्कितमुखः । (१८) सिंहपूर्वार्धकायता इति । उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः । (१९) सुसंवृत्तस्कन्ध इति सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः । (२०) चितान्तरांसता इति । काञ्चनपट्टसुविसृष्टोपचित" स्कन्धत्वाच्चितान्तरांसः । ६. ७. ८. ९. १०. ११. Ms. उच्छंग.. Ms. omits °न°. Cf. ठितको व अनोनमन्तो उभोहि पाणितले हि जण्णुका नि परिमसति परिमज्जति । DN. III, p. 111. Jain Education International Ms. so. Should it be 'द्ध' ? Reference may be to हस्तिन् also. On "अनुपलिप्त " undefiled", see BHSD, p. 29. Our omitted in Ms. ° चितो°—Ms. संकाय पत्रिका - १ For Private & Personal Use Only www.jainelibrary.org
SR No.014028
Book TitleShramanvidya Part 1
Original Sutra AuthorN/A
AuthorGokulchandra Jain
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year1983
Total Pages402
LanguageHindi, English
ClassificationSeminar & Articles
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy