________________
२१६
श्रमणविद्या
[महापुरुषलक्षणानां पूर्वनिमित्तान (१) ततः चक्राङ्कहस्तपादो भवति [i] गुरूणामनुग(म)“नप्रत्युद्गमनाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुदानप्रभृतिषु परिवारदानाच्चकाङ्कहस्तपादो भवति, तत्पुनमहापरिवारतायाः पूर्वनिमित्तम् । (२) दृढसमादानत्वात् सुप्रतिष्ठितपाणिपादस्तदकम्पनीयतायाः पूर्वनिमित्तम् । (३) चतुर्णां संग्रहवस्तूनां दानं प्रियवद्यार्थचर्यासमानर्थता नामासेवनाज्जालहस्तपादस्तत्क्षिप्रसंग्रहतायाः पूर्वनिमित्तम् । (४-५) प्रणीतो नाम (?)सितपोतलीढखादितास्वादितानु२२दानात् मृदुतरुणहस्तपादः सप्तोच्छ्यश्च, तदुभयं प्रणीतानामेवासितपीतलीढखादितास्वादितानि२३ प्रतिलब्धये पूर्वनिमित्तम् । (६-८) बद्धपरिमोक्षणाज्जीवितानुग्रहकरणात्प्राणातिपाताच्च प्रतिविरतेरासेविताद्दीर्घाङ्गलिरायतपादपाणि वृहदृजुगात्रश्च, तद्दीर्घायुष्कतायाः पूर्वनिमित्तम् । (९-१०) कुशलस्य धर्मसमादानस्योपात्तस्याभिवर्धनादपरिहाणाच्च उच्छङ्खपादश्वो
गिरोमश्व२४, तदपरिहाणि धर्मताया विनये वा पूर्वनमित्तम् । (११) सत्कृत्यशिल्पविद्याकर्मणामुपप्रदानादुपादानप्रदानाच्च एणेयजस्तत्क्षिप्रग्रहणतायाः पूर्वनिमित्तम् । (१२) स्वतः सम्विद्यमानस्यार्थस्य याचितेन दानादप्रत्याख्यानाच्च पटूरुबाहुस्तद्वशितायाः प्रदाने विनये वा पूर्वनिमित्तम् ।
95. Ms. omits °*°, which is an obvious lapse. १९. For the four संग्रहवस्तुs, see Dharmasangraha, item no. 19,
Mahāyāna-sūtra-sangraha, Vol. I, p. 330. Also see DN. III,
p. 118. २०. Ms. separates समनार्थता and नामा,
Ms. Gives so. Reading doubtful. २२. Ms. °न° २३. Ms. °नी २४. °रोमा च-Ms. २५. Ms. here gives निमित्तः।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org