________________
संपा० मुनि शीलचन्द्र विजय
४५
तद्वारणम् । एवं च असमवायिकारणमित्यत्र सादृश्यमेव नञर्थः । तच्च भेदषटितमिति ज्ञापनार्थ सत्रत्रयभेदा निवेशित इति न तु स्वातन्त्र्येणापि नञर्थो भेदः प्रदर्शित इति तद्वैयर्थ्यशङ्कां मा कुरु ।
यथा घटं प्रति कपालद्वय संयोगोऽसमवायिकारणं तथा घटरूपस्य कपालरूपमन्तरानुत्पत्तेस्तत् प्रति कपालरूपं कारणं वाच्यम् । यथा घटरूपनाशजनकनाशप्रतियोगी रूपसमवायी घटो भवति तथा कपालरूपमपि भवतोति कपालरूपं घटरूपस्योऽसमवायिकारणमिति तर्कय ।
अत्रापरमपि विभावय समवायेन घटरूपकार्याधिकरणे कपालद्वये कपालसंयोगः समवायेनाऽस्तोति कार्यतावच्छेदकः कारणतावच्छेदुरुश्च समवाय एन सम्बन्धः । समवायेन रूपाधि करणे घटे कपालरूपं न समवायेनास्ति, तस्य कपाल एव समवायेन सत्त्वात् । घटकपालयाः कार्यकारणयार्भेदात् कपालरूप समवा
येन आस्तामिति तु नाशङ्कनीयम् । किन्तु स्वसमवायिसमवेतत्वसम्बन्धेन वर्त्त (त) इति समवायः कार्यतावच्छेदकः सम्बन्धः, कारणतावच्छेदकसम्बन्धस्तु स्वसमवायि समवेतत्व सम्बन्ध इति विशेषः । एवं च सर्वत्राऽयं नियमः कर्तव्यः " समवायेन अवयविगुणं प्रति स्वसमवायि समवेतत्वसम्बन्धेनाऽवयवगुणः कारणम्", इति ।
ननु
स्वसमवायिसमवायित्वसम्बन्धेन घटरूपाधिकरणे कपाले समवायसम्बन्धेन कपालरूपस्य सच्चात् स्वसमवायिसमवायित्वसम्बन्धः कर्यतावच्छेदकः, समवायस्तु कारणतावच्छेदकः सम्बन्धोऽस्तु | किमर्थं तादृश एव नियमः कर्त्तव्य इति ? |
चिरं जीवतु भवान् । यतोऽत्यन्तं रहस्यं पृष्टवानसि । तथापि वच्मितदेव कार्याधिकरण प्राह्यं यत्र स्वस्वकारणतावच्छेदकसम्बन्धैः सर्वाणि कारणानि भवेयुः । पश्य, यदा समवायेन घटरूपस्याऽधिकरणं घटो गृह्यते, तदा तत्र घटरूपस्य समवायिकारणं यो घटः स स्वोय कारणतावच्छेदकोभूतेन तादात्म्येन सम्बन्धेन वर्तते, तत्रैव कपालरूपमपि स्वीय कारणतावच्छेदकोभूतस्वसमवायिसमवेतत्वसम्बन्धेनास्तोति न घटरूपोत्पत्तौ बाधकम् । यदि त्वदुक्कपथा (पयेत) स्वसमवायसमवायित्वसम्बन्धेन घटरूपाधिकरणं कपालं गृद्यते, तदा तत्र कपाले असमवायिकारणं तु कपालरूपं स्वायकारणतावच्छेदकत्वेनाऽभिमतेन समवायेन तु वर्तते, परन्तु समवायिकारणं घटः स्वोय कारणतावच्छेदको भूततादात्म्यसम्बन्धेन
Jain Education International
For Private & Personal Use Only
――――
www.jainelibrary.org