________________
श्रोन्यायसिद्धान्तप्रवेशकन्थिका तत्र कपाले नास्तीति कथमे केनाऽसमवायिकारणेन तत्र कपाल उत्पद्येत घटरूपं इति तु त्वयैव विभावनीयम् ।
किञ्च स्वसमवायिसमवायित्वरूपो योऽयं घटरूपस्य कपाले सम्बन्धस्त्वया कल्पितः, स कथं घट पोत्पत्तेः पूर्व कपाले सम्भविष्यतीति स न कार्यतावच्छेदक इति कश्चित् प्रतारयेत् तर्हि तेन मा प्रतारितो भव । यतो नैय्या(या)यिकमते कार्यतावच्छेदकसम्बन्धावछिन्नाधेयतोत्पत्योश्च समान कालीनत्वमेवास्तीति समवायिकारणलक्षणप्रस्तावेऽभिहिमस्माभिः ।
सत्यमुक्तं भवता, परन्तु........ ।
पृच्छ पृच्छ, मा भैषोः । विवादबुध्ये(ये)दानी प्रष्टव्यमित्यस्माकं निर्बन्धः ।
तर्हि पृच्छयते जिज्ञासुना मया-यदुक्तं "मा प्रतारितो भव" इति-, तत्रोवं संशयः, - घटरूमस्येदानोम भावात् स्वसमवायो घटोऽप्रसिद्ध इति तद्घटितपरम्परासम्बन्धस्याऽलाकतया तेन सम्बन्धेन कथं घटरूपकार्यस्याधिकरणं कपालं भवेदिति किं तेन प्रतारितम् ? सत्यमेव तदस्तीति ! ।
मैवम् । अतितुच्छतरं पृष्टम् । अरे ! अत्र मते उत्पत्तिसमय एवं कार्ये समवेतवस्त्रोकारे सनमायकारणस्य किं कार्यसमवायित्वं न स्वकृतं भवताति कथं न विभावयसि ! । तस्मान्मदुक्तमेवावधारय ।
ननु पूर्व भवता एवमुपदिष्टमस्त् ियत् 'तदेव कार्याधिकरण ग्राह्यं यत्र स्वस्व कारणतावच्छेद कसम्बन्धेन सर्वेषां कारणानां मेलनं भवति' इति । तत्रैवं संशयः - संयोगेन घटरूपकार्याधिकरणे चक्रे तादात्म्यसम्बन्धेन चक्र स्वजन्यभ्रमिवत्तासम्बन्धेन दण्डश्च वर्तते । तथापि कारणतावच्छेदकत्वेन सिद्धेन तादात्म्येन समवायेन वा कपालद्वयं तत्संयोगो वा नास्तीति कथमुच्यते चक्रे संयोगेन घट उत्पद्यत इति ? ।
साधु साधु । उच्यते । 'चके घट उत्पद्यते' इत्यत्यन्तलौकिकैः, 'चक्रे संयोगेन घट उत्पद्यते' इति तु च्छात्रैः, 'न घटः संयोगेन चक्र उत्पद्यते, समवायिकारणघटित कारणकलापरूपसामग्रया अभावात्, किन्तु कपाले समवायेनोत्पद्यते, तत्र सामग्रीमात्रस्य सत्त्वात्' इति तु शास्त्राभिज्ञेरुच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org