________________
४४
श्रीन्यायसिद्धान्तप्रवेशकान्थका तथा हि-'यत्समवेतमुत्पद्यते' इत्यस्य यस्मिन् कपालादो समवायसम्बन्धेन विद्यमान सदेवाऽऽयक्षण सम्बन्धवद् भवति, न तु पूर्व विद्यमान प्रथमप्रकाशवद् भवतीति ।
ननु किं कारण नैय्या(या)यिकोक्तं यत्समवेतोपाये(यमे?)व साधु, न साक्योकं पूर्व सदेव प्रथमप्रकाशवद् भवतीति ।
सत्यम् । मनो देयम् । किमुच्यते ? - पूर्व स्वोपादाने-'सदेवकार्य प्रथमप्रकाशवद् भवतीति' तत्रेदं पृच्छयते- किं प्रथमप्रकाशो घट इव पूर्व सन् आहोस्विदसन् ?। सच्चे(संश्चे)दुत्पत्तेः पूर्व स्वोपादानभूतायां मृदि (कुतो) न घटः प्रकाशते ? प्रथमप्रकाशविशिष्टस्य घटस्य सत्त्वात्, द्वयोरपि पूर्व त्वया सत्या(वा)ऽभ्युपगमात् । असच्चे(असंश्चे)त् प्रकाशः, तदा अलं सत्कार्यवादेन । प्रथमप्रकाशरूपकार्यस्याऽसत एवोत्पत्तिस्वीकारात् । तस्मात् साधु पूर्वाचायः 'यत्समवेतम्' इत्युक्तम् । अस्माभिस्तु परमतखण्डनमण्डनादिविचारमुपेक्ष्य, केवलं समवायिकारणपदस्याऽन्वर्थतामुपगम्य, "कार्यस्य समवायि सत् कारणं तत् समवायिकारणम्"इत्युक्तम् ।
प्रकृतं शृणु- घटं प्रति कपालद्वयसंयोगोऽसमवायिकारणं भवति । तदथंच समाविभिन्नं समवायितशं यकारणमिति । सादृश्यं च कार्यनाशननकनाशप्रतियोगित्वदध(स्वध) मेंण । पश्य, घटकार्यस्य समवायि कपालद्वयं, तद्भिन्नः कपालद्वयसंयोगः। अथ च कपालद्वयसदृशोऽप्यस्ति । कारणं चाsस्तोति सोऽपवायिकारणमित्युच्यते । घटनाशो हि कपाल नाशाद् यथा जायते 'तथा कपालद्वयसंयोगनाशादपि जायते "। एवं च घटरूपकार्यनाशजनको यो नाशः [स] कपालद्वय नाशस्तसंयोगनाशश्च । तत्प्रतियोगित्वं कपालद्वये तसंयोगे चाऽस्तीति कपालद्वयसदृशस्त्संयोगो जात इति विचारय ।
विचारितम् । कार्यनाशजनकनाशप्रतियोगित्वं यथा घटसमवायिकारणे कपालद्वयेऽस्ति तथा घटनाशजनकनाशप्रतियोगित्वं कपालद्वयसंयोगेऽप्यस्तीति कपालद्वयसंयोगो घटसमवायिसदृशस्तद्भिन्नोऽपि कारण चाऽस्तीति सोऽसमवायिकारणमिति । परन्तु असमवायोत्यस्य न समवाय्यसमवायोति परित्यज्य समवायिभिन्न समवायिसदृशं इति कुतो वाऽर्थः कृतः ।
सत्यम् । समवायिभिन्न निमित्तकारणं दण्डादिरपि भवतीति तयावृत्तये समवायिसदृशमित्युक्रम् । नहि दण्डादिनिमित्त कारणनाशाद् घटनाशो भवतोति न दण्डादो कार्यनाशजनकनाशप्रतियोगित्वेन समवायितादृश्यमस्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org