________________
संपा० मुनि शीलचन्द्रविजय
सत्यम् । यथा गृहवर्त्तिनामविभक्तानामात्मोयानां भोजनकर्मणि निमन्त्रणाsभावेऽपि प्रवेशः, अनात्मीयानां विभक्तानां वाऽऽत्मीयानां परं निमन्त्रणापेक्षा, अन्यथाप्रैवेशो(शे!)ऽनवस्था वा स्यात् । तथा प्रकृतेऽपि । सदातनानां सार्वत्रिकाणां च निमन्त्रणस्थानाभिषिक्ताऽन्वयव्यतिरिक्त (रेक) योर्नापेक्षा, तेषां कालादीनां सदातनत्वेन सार्वत्रिकेन (कत्वेन) च कारणत्वस्य सिद्धत्वात् । पश्य, यदि कालादि न कारणमनुमन्येत तदा फलपुष्पाणां सर्वदात्पत्तिः स्यात्, काळातिरिक्तानां सर्वकारणानां सत्त्वात् । तस्मात् कालाद्यष्टौ ( कालादयोऽष्टौ ) साधारणकारणानीति सिद्धम् ।
उक्त कारणत्वद्वयमपि तेषामेव भवति ये चाऽन्यथासिद्धा न भवन्ति । अन्यथासिद्धाश्च त एव विनाऽपि कार्यमुत्पद्यते, कार्योत्पत्तौ न व्यापृता भवन्तीति । पश्य, घटोत्पत्तौ यथा दण्ड दिकं व्यापृतमस्ति न तथा दण्डरूपं दण्डत्वादिकं वा, अतस्तदन्यथासिद्धमिति गीयते ।
४३
असाधारण कारणेषु मध्ये किञ्चित् समवायि किञ्चिदसमवायि किञ्चिन्निमित्तं भवति । यथा घटं प्रति कपालक्ष्य-तत्संयोग-दण्ड चक्रादीनामसाधारणकारणानां मध्ये कपालद्वयं समावायिकारणं, तस्य कार्यसमवायित्वात् । एवं च समवायिकारणमित्यस्य, कार्यस्य समवायि नाम समवायसम्बन्धेनाधिकरणं सत् कारणमित्यर्थो बोध्यः । भवति च कपालद्वयं घटकार्यस्यसमवायेनाऽधिकरणं सदेव कारणम् । पूर्वोक्तरीत्या च कार्यकारणभावं कुरु ।
नन्विमां भवदुक्ां सरलपद्धतिं परित्यज्य ग्रन्थकारैः 'यत्समवेतं कार्यम्' इतिवक्रपद्धतिः किमित्युररीकृता ? | शृणु । यथा समवायीत्यस्य समवायसम्बन्धेनाऽधिकरणमित्यर्थो भवति, तथा समवेतमित्यस्य समवायेनाssधेय इत्यर्थो भवति । तथा च 'यत्समवेतम्' इत्यस्य यन्निरूपितसमवायसम्बन्धावच्छिन्नाधेयतावदित्यर्थः पर्यवस्यति । एवं उत्पद्यत इत्यस्य उत्पत्त्याश्रय इत्यर्थो लभ्यते । उत्पत्तिश्च आद्यक्षणसम्बन्धः । एवं च सति उत्पत्त्याश्रयत्वं यत्समवेतत्वं चैकस्मिन् घटे एकदैवोक्तं भवति । तेन चान्येषां सत्कार्यवादः प्रत्याख्यातो भवति । तथा हिसाङ्ख्यास्तावदेवं मन्यन्ते - घटादिकार्य स्वापादानभूतायां मृदि मृदूपेण उत्पत्तेः प्रागपि तिलेषु तैलमिव वर्त्तत एव । तस्य दण्डादिसामग्रया उत्पत्तिर्नाम प्रथमप्रकाशः । न त्वाद्यक्षण सम्बन्ध इति सदेव कार्यमिति । एतन्मतं च 'यत्समवेतमुत्पद्यते' इति पदाभ्यां प्रत्याख्यातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org