________________
व्यावहारिकं परमार्थिकदृष्ट्या समता विषमता च
आचार्य श्रीविश्वनाथशास्त्री दातारः विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतम् । पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ॥ यः साक्षात् कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम् । तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ शास्त्रेषु स्वं स्वं विषयमधिकृत्य दिदृक्षवः चक्षुर्व्यापारं नियुञ्जत इत्युक्तम् :चारैः पश्यन्ति राजानः शास्त्रः पश्यन्ति पण्डिताः । गावः पश्यन्ति प्राणेन चक्षुर्भ्यामितरे जनाः ॥
एतेषु पण्डिताः अपि येन चक्षुषा अन्तः स्थितं चक्षुर्भ्यामयोग्यं तत्त्वं पश्यन्ति, तच्चक्षुः शास्त्रं भारतीयैः दर्शनत्वेन समभिधीयते । तदिदं समभिधानं विरुद्धत्वादौपचारिकं भाति चक्षुर्भ्यामयोग्यस्य शास्त्रव्यापारसमुदायेनापि ताभ्यां पश्यामीत्यनुव्यवसायस्य अशक्योत्पादात्। तथापि शास्त्राभ्यासेनोदबुद्धसंस्काराभावे चक्षुर्भ्यामयोग्यं भवत्यावरणसत्वात् इत्येवं परिष्कृते शास्त्रेषु दर्शनव्यवहृतिर्नोपचारिकी इति स्थितिः ।
तच्च दर्शनयोग्यं शास्त्रमन्तरा सूक्ष्मं किं तदिति प्रश्नस्य समाहितिः वस्तुमात्रे उत्तमपुरुषत्वदर्शनेन सम्भवति । उक्तं पुरुषत्वं अहन्त्वस्य सर्वत्र प्रत्यभिज्ञाने सति सम्भवति । तच्चात्मस्वरूपान्नातिरिक्तं भवति । तदिदमात्मत्वप्रकारकं अनेकविशेष्यकं दर्शनं समदर्शनम् । ईदृग्दर्शनविषया सर्वसाधारणी समता घटसाधारण्येन स्थिता घटतेव वर्तमाना दृष्टिपथं गता सती द्रष्टुर्मङ्गलाय भवति । तत्रापि नीतिविदां सर्वलोकनमस्कृतं राजपदमारुह्य स्थितानां कृते तु नितरां सुखायैवेति नीतिविदां सिद्धान्तः । सेयं समता द्विविधा भवति । एका पारमार्थिकी, अपरा सामाजिकी । प्रथमसमतायां मुक्त्यवस्था यत्र तत्रैव क्रियाकारकयोरन्तराले अन्वये चिकीर्षिते स एव न सम्भवति क्रियायाविलयनात् सर्वेषां कारकाणां कर्तृत्वादिभेदेन व्यवहारविलयनाच्च । तथाचोक्तं गोतायाम्
ब्रह्मार्पणं ब्रह्महविरित्यादि । स्पष्टीकृतञ्चैतत् रामायणेऽपि - रामो न गच्छति न तिष्ठति नानुशोचत्याकांक्षते त्यजति नो न करोति किञ्चित् । आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तया विभाति ॥
अ० वा०
परिसंवाद - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org