________________
सामाजिक समत्वविषये भारतीयदर्शनानि
३४१
चादृष्टे पर्यवसानमिति । अयमत्र निर्गलितोऽर्थः - दृष्टफलकेष्वपि कर्मसु नियमविध्याश्रयणेनादृष्टार्थत्वमपि स्वीकृत्य धर्मबुद्धया तेषामाचरणम् । तथा च सामाजिकेषु समत्वदृष्टिरपि 'अयन्तु परमो धर्मो यद्योगेनात्मदर्शनम्' इत्यादिस्मृतिवचनेन मीमांसकानां धर्मा भवति । 'आत्मदर्शनम्' इत्यस्य आत्मवद्दर्शनम्, आत्मनो दर्शनम् इत्यर्थद्वये स्वीकृते पूर्वोत्तरमीमांसादर्शनयोस्समन्वयः प्रसिद्धयति । आत्मनो भेदे वा अभेदेवा समत्वदृष्टेर्धर्मत्वेन परिग्रहः । धर्मश्च यथाधिकारं यथामर्यादञ्चाचरणीय इति शास्त्र - सम्मतः पन्थाः । दर्शनेषु दर्शनानां सिद्धान्तेषु तत्प्रकारेषु च भिन्नेष्वपि दर्शनानां सामाजिक समत्त्व विषयक दृष्टेः नारदकृतज्येष्ठालक्ष्मीविवादनिर्णयन्यायेनैकरूप्यमेव । पारमार्थिकदशायां या समत्वदृष्टिर्न सा व्यावहारिकी भवितुमर्हति व्यावहारिकदशायां यादृशी शास्त्रसम्मता समत्वदृष्टिः सा पारमार्थिक्यास्समत्वदृष्टेर्न बाधिका । आर्थिकसमत्वविषये भारतीयदर्शनानि तामेव समतानीतिमङ्गीकुर्वन्ति या च धर्मसंवलितार्थकामप्रधाना । तदैव भारतस्य भारतत्वं प्रसिद्धयेदिति विभावयामः ।
Jain Education International
For Private & Personal Use Only
परिसंवाद - २
www.jainelibrary.org