________________
३४०
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ कालान्तरफलत्वादिदानीमनुभवासम्मवस्तत्र श्रुतिमूलता। सान्दृष्टिकफले तु वृश्चिकविद्यादौ पुरुषान्तरे व्यवहारदर्शनादेव प्रामाण्यमिति विवेकसिद्धिः' इति ।
__ अनेन सन्दर्भेणेदं निश्चेतुं शक्यते यद् भट्टपादाः सर्वेषु दर्शनेषु समत्वबुद्धि निक्षिपन्तः जगत्तत्त्वपरिशीलनपरिपक्वमतिवैभवान् विरुद्धसिद्धान्तावलम्बिनस्सर्वानेव दर्शनप्रवर्तकधुरन्धरान् एकीकृत्य निनीषन्तीति प्रकृतमनुसरामः । नैकविधास्वितिकर्तव्यतासु विचारोऽप्यन्तर्भूतः। स च प्राचीनग्रन्थपरामर्शमुखेनैव कर्तव्यः । केवलमुपदेशेन तद्व्याख्यानेन वा नार्थस्साधयितुं शक्यः । तदिदमुक्तं वाक्यपदीये
प्रजाविवेकं लभते विभिन्नागमदर्शनैः । कियद्वा शक्यमुन्नेतुं स्वयत्नमनुधावता ॥ तत्तदुत्प्रेक्षमाणानां पुराणैरागमैविना ।
अनुपासितवृद्धानां विद्या नाति प्रसीदति ॥ इति । विचारस्येतिकर्तव्यतात्वे स्वीकृते तत्र विचारात्मकं मीमांसाशास्त्रं कनिष्ठिकामूलपातमनुभवति । विचारस्तु न खण्डनमण्डनरूपः अपितु समन्वयात्मिकया दृष्ट्या परिशीलनम्, तदिदं मीमांसकैरवलम्बितम् । स्मृतिप्रामाण्यव्यवस्थाप्रसङ्गे दृष्टार्थानां कर्मणां दृष्टार्थत्वादेव प्रामाण्यम्, अदृष्टार्थानाञ्च वेदमूलकत्वेन, इत्यभ्युपगच्छतां भाष्यकाराणां श्रीशबरस्वामिनां मतपरिशीलनावसरे भट्टपादा अभिप्रयन्ति-यदृष्टार्थकर्मसु नियमविधित्वाङ्गीकारेण तेषामप्यदृष्टार्थत्वं वेदमूलकत्वञ्चेति । यथा 'गुरुरनुगन्तव्योऽभिवादयितव्यश्च, वृद्धवयाः प्रत्युत्थेयः, सम्मन्तव्यश्च' इत्यादयस्सन्ति स्मृतयः। गुरोरनुगमनम् गुरावागते प्रत्युत्थानम्, चरणस्पर्शः, गुरावुपविष्टे तदनुज्ञयोपवेशनमन्तेवासिनाम्, उत्थिते गुरावुत्थानम्, इत्यादीनान् उपदिशन्तीमास्स्मृतयः। एतान् नियमान् यथायथं परिपालयतोऽन्तेवासिनः गुरुः प्रीतस्सम्यगध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश्च न्यायान् परिवस्यति इत्यस्ति दृष्टं प्रयोजनम् । तेनैवैतादृश्याः स्मृतेः प्रामाण्यमिति भाष्यकाराणामाशये स्थिते, अदृष्टार्थत्वमप्यस्याः स्वीकर्तव्यमिति ।
धर्म प्रति यतोऽत्रेदं प्रामाण्यं प्रस्तुतं स्मृतेः।
तस्मात्कृष्यादिवत्तेषामुपन्यासो न युज्यते ॥ इति । सूत्रकारोऽपि जैमिनिः षष्ठद्वितीयपादे दशमाधिकरणे 'आचाराद् गृह्यमानेषु तथा स्यात् पुरुषार्थत्वात्' इति सूत्रयन् यावन्ति निमित्तानि तावन्ति नैमित्तिकान्यावर्तनीयानि, अर्थादागत आगते निमित्ते तान्यनुगमनप्रत्युत्थानादीन्यनुष्ठेयानीत्युपदिशति । अनेनेदं सिद्धयति यन्नैमित्तिकानामकरणे प्रत्यवायः, करणे च फलाभावः, तस्य
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org