________________
व्यावहारिकं परमार्थिकदृष्टया समता विषमता च
न्यायरत्नावल्यामपि — दृश्याधिकरणक्षणे दृश्याधिकरणक्षणपूर्वत्वानधिकरणत्वं दृश्योच्छेदः । तत्त्वप्रमाक्षणो यो यो भवति स तत्त्वज्ञान तत्प्रयुक्तदृश्यकालपूर्वत्वाभाववान् तत्त्वप्रमोत्पत्तिद्वितीयक्षणः तादृशा भाववानिति च व्याप्तेः इति ।
एतदवस्थायां आत्मा भाति किन्तु आत्मत्वं न प्रकारः । घटपटादिपदार्थानां सर्वथा तत्त्वेन अभानात् । सामाजिकी पूर्वोक्ता द्वितीया समता तु मुक्तः प्राग्भाविनी अस्ति, तत्र 'अहम् - जगत्' - इत्याकारकम्, अहंविशेष्यकं तादात्म्येन जगत्प्रकारकं किं वा 'जगत् अहम्' इत्याकारकम् जगद्विशेष्यकं तादात्म्येनाहं प्रकारकं ज्ञानं भवति । उभयोरप्यनयोर्ज्ञानयोः अहन्त्वं जगति प्रतिभातं भवति । अहन्त्वस्य भानमन्तरा न कथञ्चन भारतीय राजनीतेः प्रतिष्ठापि न सम्भवितुमर्हति इति पर्यालोच्य नीतिसारकृता नृपतिपदाय शमाय च क्षम इति एकमेव साधनमुक्तम् ।
सुनिपुणमुपसेव्यं सद्गुरु शुचिरनुवृत्तिपरो विभूतये । भवति हि विनयोपसंहितो नृपतिपदाय शमाय च क्षमः ॥ इति ॥
अहन्त्वस्य भाने सामाजिकी समता कथं भवति इत्यंशोऽथ प्रस्तूयते । तथाहिकीदृग्विधायामपि नीत प्रतिष्ठापयितुमीहितायां युष्मदस्मद्गोचर एष प्रत्ययः यावत्पर्यन्तमस्ति तावत्पर्यन्तं रागद्वेषाभिमानमदान्धताया आवरणं नियतं भवति । एवं स्थिते सामाजिकः सर्वविधोऽपि व्यवहारः मैत्रीपूर्णो न भवितुमहति इति हि शास्त्रविदां मतम्, अजितेन्द्रियताया अविनयस्य वा विशेषतया प्रसरणात् भेदभावे तन्निवारणासम्भवाच्च । अत्राऽयं प्रश्नः पूर्वे राजानः शासनधराः स्वप्रभावात् सामाजिकीं यादृशीं व्यवस्थां विदधुः तत्र शासनस्य प्राबल्यात् सामाजिक विषमतां उद्भावयामासुः, तत्प्रभावेन अभिभूताः समताविचारकाः परतन्त्राः विद्वांसः न सामाजिक समतां संस्थापयितुं प्राभवन् इति । तन्न । ये च राजानः शासनं लोकस्य समृद्धिहेतुं चक्रुः, ते तु सर्वत्रैव वसुधैव कुटुम्बकम्, स्वदेशो भुवनत्रयम्, इत्येवं भावमायत्तीकृत्यैव न्यायान्यायविवेचने समर्था वभूवुः । तदाहु:
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ इति । एवंभूतं समत्वं गीतायामपि उक्तं
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ इति । तदिदं समदर्शनं केन कर्तुं शक्यम् इत्यपि तत्रैव उक्तम्न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । इति ।
Jain Education International
३४३
For Private & Personal Use Only
परिसंवाद - २
www.jainelibrary.org