________________
सामाजिकसमत्वविषये भारतीयदर्शनानि
३३७ अस्मिन्मते व्यवहारदशायां वर्णाश्रमधर्मपालने नियते सत्यपि न समाजे वैषम्यबुद्धेः प्रसङ्गः। यथाधिकारं स्वं स्वं कर्मसमाचरन् मानवस्सर्वोऽपि सम एव भवति न विषमः। अधिकारातिक्रमण एव वैषम्यबुद्धिस्समुदियात् । 'लोकवत्परिमाणतः फलविशेषस्स्यात्' इति जैमिनीयन्यायेन विना मर्यादाभङ्ग स्वे कर्मणि वर्तमानस्सर्वोऽपि सम एव भवति । समत्वबद्धिप्रसाराय मृगपतिपदेऽलर्कोऽपि समारोपयितुं शक्यते, कुलपतिपदे शूद्रः श्वपाको वा नियोक्तुं शक्यते, किन्त्विदं पर्यवेक्षणीयम्, कस्तस्य परिणाम इति ।
आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदिश्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥
भिन्नेषु सत्सु तेषामेकत्वसम्पादनेनैव समाजे समत्वबुद्धिः प्रसेरत् । शून्यतादर्शनं वा ऐकात्म्यदर्शनं वा नैतदुपदिशेत्, यत् प्रतिलोमविवाहेन, आसुरराक्षसविवाहेन मन्दिरेषु शूद्रस्य चण्डालस्य वा पूजकत्वनियोजनेन, शिखायास्सूत्रस्य च छेदनेन लोकेषु समत्वबुद्धिर्भवेदिति । सम्प्रति कतिनाम न सन्ति भारते विशिखा विविधशिखा वा ? किन्तेषु समत्वं परिलक्ष्यते ? विजातीयविवाह एव समाजे समत्वाधानप्रयोजक इति काममम्बेडकरदर्शनं वा ब्रूयात् जगजीवनरामदर्शनं वा रामस्वामिनायकस्य वा । चिरन्तनानां यादृशं दर्शनम् न तथा खल्वमीषां दर्शनम् । समाजे मिथो लोकानां समत्वबुध्युत्पत्तये चतुष्पदानां व्यवहारो मानवैश्शिक्षणीयः । मर्यादामुल्लध्य न कोऽपि चतुष्पात् यौनसम्बन्धमाचरति । पशवस्तु योनिमाघ्राय तस्या विजातीयत्वे सजातीयत्वेऽप्यनुपयुक्तत्वे, विहाय तं पशुमपसरन्ति । अहहः पशुभ्योऽपि वयं निकृष्टास्स्मः, समत्वबुध्याधानाय विजातीययोनिसम्बन्धं बलात्कारयामः, पुरस्कारप्रदानेन च तान् प्रोत्साहयामः। एवं करणेन कः परिणाम इति न विभावयामः । किमेवमत्पन्नानामपत्यानां मिथो व्यवहारे वैषम्यं न विलोकयामः ? तत्रापि रागद्वेषादयः किं न भवति ? समानजातीया एव भवन्तु किं तेषु मिथस्समत्वदृष्टिरनुभूयते ? समत्वदृष्टिस्तु भावनाबलजा भवति । तत्र नेमे वर्णाश्रमधर्माः प्रतिबन्धमाचरेयुः। तादृशी भावनाञ्चोपदिशन्ति दर्शनानि । नैरात्म्यदर्शनमपि रागद्वेषाद्युत्सादनायैव प्राधान्येन प्रवृत्तम्, न तु जात्यादीनामप्युत्सादनायेत्येष्टव्यम् । ब्रह्मात्मैक्यदर्शनकार्यमपि तदेव, किन्तु वर्णाश्रमधर्मपरिपालनपुरस्सरं रागद्वेषाद्युत्सादनद्वारा समत्वदृष्टिमाधातुं प्रवृत्तम् ।
__ अपराणि च दर्शनानि नानात्मप्रतिपादकानि-द्वितीयसत्त्वेऽपि नियन्तः परमेश्वरस्य तृतीयस्य सत्त्वात्, तत्पारतन्त्र्यस्यैव सर्वेषां निरुपाधिकस्य सोपाधिकस्य वा समुपदिष्टत्वात्, सर्वात्मनां समानाकारत्वेन वैषम्याभावात्, वैषम्यहेतुनां सत्वेऽपि तेषा
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org