________________
३३६
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ आत्मग्रहो नाम बलीयान् मोहः, तन्निवृत्तावात्मीयग्रहोऽपि विरंस्यति । यदाहमेव नास्मि, तदा कि मम? इत्युपदिशन्तो नैरात्म्यवादं निर्वाणद्वारमिति ते प्रसाधयन्ति 'नास्मि', 'नास्ति' इति प्रसाधयतां तेषां प्रतियोग्यनुयोगिनोः अभावस्य चावस्तुत्वमभिप्रेतम् । संसाराख्ये महति प्रासादेऽनुयोगिनि स्वस्य परेषाञ्च प्रतियोगिनाम् अभावस्य चावस्तुत्वे सर्वं शून्यमिति पर्यवस्यति। एतादृशीमवस्थां प्रतिपन्नस्य महात्मनः सामाजिकेषु समत्वदृष्टेः क्वावसरः ? तादृशो महात्मा सामाजिकाश्च शून्याः । समत्वदष्टिः कूत आगच्छेत् ? व्यवहारदशायां सा दृष्टिस्समानेया, तदैव तद्दर्शनस्य समुपयोगः । व्यवहारदशायाञ्च उपदेष्टुः स्वस्य उपदेश्यानां परेषाञ्च सत्यत्वं संवृतिरूपमभिप्रेयते । संवृत्तिशब्दस्तु मिथ्यापरपर्यायः । स्वस्य परेषाञ्च मिथ्यासत्यत्वमागतम् । मिथ्यासत्यत्वावच्छिन्नयोरुपदेश्योपदेष्ट्रोः उपदेश्योपदेशकभावः कथं सिध्यतु ? तेन च सामाजिकेषु ममत्वभावना कथमुदेतु ? वचने पर मधुरिमा-'अहमेव नास्मि, किं ममेति' 'अहमेव न किञ्चिच्चेत् भयं कस्य भविष्यति' इत्यादौ । मधुरिम्नः आस्वाद आवश्यकः, तस्य च परिपाकोऽपि । तदेदं दर्शनं सामाजिकसमत्वदृष्टी महदुपकारकं स्यात् । पितृष्वसुःयदिश्मश्रूणि जायेरन् तहि सा पितृव्यपदवाच्यास्यादिति यथा । ___रागद्वेषादीनां भञ्जनाय भवभयत्राणाय सामाजिकेषु समत्वदृष्टिनिक्षेपणाय च नैरात्म्यवादः किमिति समाश्रयणीयः ? तदर्थं ब्रह्मात्मैकत्वोपदेश एव वरीयान् इत्यन्यदर्शनं प्रवृत्तम् । मत्तो यद्यन्यः कश्चन स्यात्, तहि तेन सह रागद्वेषादिः, तस्माच्च भयं भवेताम्, ‘यन्मदन्यन्नास्ति कस्मान्नु विभेभि, तत एवास्य भयं वीयाय । कस्माद्धि अभैष्यत्, द्वितीयाद्वै भयं भवति' इत्यादि प्रमाणेन ब्रह्मात्मैकत्वभावनायां परिपाकमापन्नायां रागद्वेषादिः भयाच मोचनं पारमार्थिकदशायाम् । ब्रह्मात्मैकत्वभावनायाः परिपाकः कृच्छेण सम्पादनीयो भवति। तदर्थ व्यावहारिकदशायां जगतो मिथ्यात्वं 'ब्रह्मसत्यं जगन्मिथ्या' इत्यादिकतिपयोनिषद्वाक्यानामावृत्तिमात्रेण न किञ्चित्प्रयोजनम् । शाब्दवोधे ब्रह्मणस्सत्यत्वं जगतश्च मिथ्यात्वमिति ज्ञानं जातम्, न तदवगतम् । अनवगतमेव तद्वयं छात्रान् सामाजिकांश्च ग्राह्यामः, अवगते च तस्मिन् न छात्रा भवेयुः नापि सामाजिकाः । 'ब्रह्मविद् ब्रह्मैव भवति' इति दशायां प्रपञ्चः क्वास्ताम् ? अतश्च व्यवहारदशायां भा मतावलम्बनेन जगतस्सत्यत्वं केनचिदंशेन स्वीकृत्य गन्तव्यं भवति । तदा समाजे समत्वदृष्टिं प्रसारयितुमस्मिन् मते कियान् भवेदवसरः । साधूक्तं नीलकण्ठदीक्षितैः
त्यक्तव्यो ममकारः त्यक्तुं यदि शक्यते नासौ। कर्तव्यो ममकारः किन्तु स सर्वत्र कर्तव्यः ॥ इति ।
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org