________________
सामाजिकसमत्वविषये भारतीयदर्शनानि
३३५
स्सम्यग्जरणे विनियुज्यते । सम्यग् जीर्णो हि सोमरसो गात्रानि प्रीणयन नाभेरधस्तान्न गच्छेत् । अत्यधिक सोमरसं प्रपीय मन्त्रस्यास्य पठनेन सम्यग्जरणं भवेद्, इति यः कश्चन निश्चिनुयात् तहि सोऽतिसारेण विरेचनेन, वमनेन च म्रियेत । सन्दर्भस्यास्येदं तात्पर्यम्, यत्तावदेव भोक्तव्यं यच्च रसरूपेण परिणतं सच्छरीरं पोषयतुं समर्थं स्यात् । शरीरधारणाय खल्वाहारो भवति, न खल्वाहाराय शरीरम् । यथा सम्यग्जरणपर्यन्तमाहारोपयोगः शरीरधारणाय कल्पते, तथा मनसो बुद्धितत्त्वस्य च परिपोषणाय दार्शनिकैः कल्पित आहारो नैकविधः। तदस्याप्याहारस्य सम्यग्जरणपर्यन्तं सेवनमुचितम् । दार्शनिकतत्त्वरूपाहारस्य सम्यग्जरणं नाम स्वजीवदवस्थायां व्यवहारेण सह समायोजनम् । 'न हिंस्यात्सर्वा भूतानि', 'न स्तेयात्', 'न परदारान् गच्छेत्', 'न सुरां पिबेत्', इत्यादीनिशास्त्राणि नोपदेशायैव केवलं प्रवृत्तानि, अपि त्वाचरणाय । तानीमानि नाचरामः, अपि तुपदिशाम इति चेत्को लाभो जीवनस्य, बोधस्तु आचरणावसानः खलु भवति । यथाहि भक्षणं सम्यग्जरणावसानम् ।
'शुनि चैव श्वपाके च पण्डिताःसमर्शिनः' इति साधूक्तं पार्थसारथिना। अस्या गीतेर्गानमात्रेण समर्शित्वं न नाम सिध्येत् । 'ब्रह्म सत्यं जगन्मिथ्या' इत्येवमुपपादनमात्रेण जगतोमिथ्यात्वं ब्रह्मणश्च सत्यत्वं न खलु सिध्येत् । पदार्थसिद्धिरन्या, तदुपपादनञ्चान्यत् । शून्यं शून्यं, दुःखं दुःखम्, स्वलक्षणं स्वलक्षणम्, क्षणिक क्षणिकमिति जपमात्रेण न खलु संसारस्य शून्यत्वम्, दुःखरूपत्वम्, क्षणिकत्वं वा सिध्येत् । वाग्दुकेन केनचन सोपपत्तिवाचा साधितमपि सर्वमिदं कस्मै प्रयोजनाय कल्पेत । स्वस्ववाग्विलासप्रदर्शनाय न खलु सन्दृब्धानि शास्त्राणि मनीषिभिः । तांस्तान् पदार्थान् समनुभूय ते निरमासत दर्शनानि ।
सर्वश्च दार्शनिकः स्वस्वप्रतिपाद्यविषयावबोधनाय कण्टकानाकीर्णं मसणं पन्थानं निर्माय विचरति । मसृणे पथि विचरन् परैविकीर्यमाणान् गमनोपरोधकान् उपलान् कण्टकांश्च दुरीकुर्वन् गच्छति । एवं क्षुण्णे पथि परांश्च सामाजिकान् गमयितुमभिलषति । सर्वदर्शनप्रवर्तकानामियमेव सरणिः । तस्य तस्य दार्शनिकस्य मार्गे भिन्नेऽपि मार्गत्रये सर्वे समावेशयितुं शक्यन्ते, कामं ते भवन्तु मिथो विरुद्धसिद्धान्तावलम्बिनः ।
समाजे समत्वबुद्धिप्रसारणाय नैरात्म्यदर्शनमेव परमं साधनमिति केचन जगृहुः । अहंकारमकारयोः प्रहाणं नैरात्म्यदर्शनस्य मूलम् ।
यतस्ततोवास्तु भयं यद्यहं नाम किञ्चन । अहमेव न किञ्चिच्चेत् भयं कस्य भविष्यति ॥
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org